________________
[४४६)
આ. વિ.નંદનસૂરિ સ્મારક विद्वद्वन्दवरिष्ठमूर्तिरनघः सारल्यपाथोनिधिः, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥ ६ ॥ सौम्यः शान्तगुणाकरो मतिमतामाखण्डलः सारवित् , संसारामयघोरजालजटिलं दुःख पिनष्टि स्थिरम् । सिक्त्वा वागमृतं जनेषु सततं योऽसौ दयालुर्मुदा, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥ ७ ॥ . ज्योतिःशास्त्रविशारदोऽतिनिपुणो योगक्रियाभासुरः, सन्मार्गाश्रयतां नयत्यनुपलं लोकानशोकान् सदा । यद्धास्यं तनुते मुदं बहुतरं सत्त्वप्रकर्षाद्भवं, श्रीमन्नन्दनसरिराट् स जयतात् सच्चक्रचूडामणिः ॥८॥ कविना भालचन्द्रेण, दयाशंकरसूनुना । कृतं श्लोकाष्टकं रम्यं, स्तंभतीर्थाधिवासिना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org