________________
अअलि सौराष्ट्रभूषण सूरिः, सर्वानन्दकरः सुधीः । शास्त्राभ्यासी तपस्वी च, नन्दनो नाम नन्दनः ॥ १ ॥ स्याद्वादाचरणी शुद्धः, समभावपरायणः । शीलसंयमसंपन्नः, प्रतापी शीतलो गुणैः ॥ २ ॥ स्वस्य नियामको नित्य', प्रेरकोऽध्यापको गणे । सद्गुणानां पक्षपाती, दोषाणां च निवारकः ॥ ३ ॥ मर्यादाराधको भक्त्या, जैनशासनघोषकः । महाव्रतघरो धीर-स्तपस्वी संयमी यमी ॥ ४ ॥ शुक्लपक्षिक्रियाशीलो, वर्धमानगुणाकरः । वर्धमानप्रभोभक्तो, गुरोर्नाम्नः प्रदीपकः ॥ ५ ॥ शिष्याणां च प्रशिष्याणां, शासकः शिक्षकः क्षमी। भव्यजनप्रतिबोधी, व्याख्यातृणां चूडामणिः ॥६॥ तीर्थभक्तो गुरुभक्तो, मितभाषी च निःस्पृहः । मुनिगुणगणाधारः, सूरिपदविभूषकः ॥७ ॥ सुवन्दितो मया भक्त्या, कृपावर्षी स्मिताननः । चिरं नन्दतु विश्वेऽस्मिन् , सूरिविजयनन्दनः ॥ ८ ॥
- पं. बेचरदास दोशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org