________________
श्रीविजयानन्द सरीश्वराष्टकम
धारं धारं व्रतमविकलं ब्रह्म बाल्यान्मनस्त्री । वारं वारं विमलवचनं वीतरागस्य विश्वम् || सारं सारं सकलसुखकृत्सूक्तिमुक्तामजल्पीत् । पायात्स श्री महित विजयानन्दसूरिः सदा वः ॥ १ ॥
रचयिता - मुनिराज श्री विचक्षणविजयजी.
शताब्दि मंथ ]:
Jain Education International
जोषं जोषं गुरुपदकजं प्राप्तविद्यो विरक्तः । स्तोषं स्तोषं वपुरपगतेच्छस्तपस्यंश्च तीव्रम् ॥ रोषं रोषं व्यसृजदखिलं चान्तरं शत्रुवर्गं । देयान्मोदं महितविजयानन्दसूरिः सदा वः ॥ २ ॥
कारं कारं परहितमतिर्धर्मसञ्चारमग्र्यं । तारं तारं भवजलनिधेर्जन्मिनोऽल्पेतरान् यः ॥ हारं हार व्यहृत हृदयान्यत्र हृद्यैर्गुणौधैभूयात्तुष्ट्यै महितविजयानन्दसूरिः सदा वः || ३ ||
नायं नायं नयनिपुणतां श्रोतृलोकं समस्तं । गायं गायं गुरुगुणगणं देवधर्मे गुरौ वा ॥ पायं पायं चरणशरणान् तापतप्तानतृप्यत् । दिश्याद्भूतं महित विजयानन्दसूरिः सदा वः ॥ ४ ॥
•: २१३ :•
For Private & Personal Use Only
www.jainelibrary.org