________________
अथ स्तुतिश्लोकः दलयति चेति खलबलदलनः ।। धर्मोऽपि खलानां कुपथगामिनां बलं बलात्कारेणावरोधनमत्याचरणं दलति दलयति सुयुक्तियुक्त्येति खलबलदलनः ।
पुनः कथंभूतो मुनिर्धर्मश्च ( लोललीलस्वलजः ) । लोला चंचला या तृष्णा-विषयवासना तस्या या लीला विलासता तया स्वस्मिन्नैव स्वीयात्मन्येव लज्जतेऽहो दुरन्तेयं तृष्णा नानायोनिषु जातेनापि शतशो भोगा भुक्तास्तदपि नरभवेऽद्यापि वासनाक्षयो न जात इति विचारेणात्मन्येव लज्जत इति लजः। धर्मोऽपि लोला विद्युद्वच्चला चपला या लक्ष्मीस्तस्या लीला-केलिस्तया स्वे स्वकीये धनादावपि यद्यन्यायतया व्यवहृयते विधाय परपीडां गृह्यत इति लज्जते किमुत परकीयधनादिग्रहणम् ॥
पुनः कथंभूतः स मुनिपुंगवो धर्मश्च (केदारौदास्यदारी) के शिरसि दरमेव दारं यद् भयं मृत्युजन्यं तेन यदौदास्यं व्यापारादौ शिथलीकरणत्वं तद् धर्मोपदेशसुधापानतया दारयतीति (केदारौदास्यदारी) धर्मोऽपि विशां कृषिकर्मस्वभावजमिति शास्त्रवचनपरिपाट्या केदाराणि क्षेत्राणि तत्कर्मवन्तो ये जनास्तेषां कर्षणसेचनवपनादिना बुभुक्षाजन्यं यदौदास्यं जनुषामिति तदारयतीति तादृशः । पुनः कीदृशोऽयं मुनिर्धर्मश्च ( विमलमधुमदोद्दामधामप्रमत्तः) । विमलो नातिशीतो नात्युष्णः सर्वाननुदायी यो मधुर्वसन्तर्तुस्तत्र तेन वा यो मदो हर्षो नानाविधविकसितलताकुसुमफलाभिदर्शनजः । तस्योद्दामधामा यः कामस्तत्र प्रमत्तः । समायाते वसन्ते कः खलु सकामो न भवेदेते मुनयस्तत्रापि जितकामवेगा एव । अथवा विमलं विशेषमलावच्छिन्नं यन्मधु मद्यं तस्माद् य मदो मदावस्था तस्य यद्-उद्दामधामग्रहिलत्वं तत्र आसमन्तात्प्रमत्तः । सावधानः सवेथा त्यक्तविषयः ।
धर्मोऽपि-विमलो विमलनाथप्रभुः स एव मधुर्मधुररसः सर्वजनपेयो दर्शनीयस्तस्माद् यो मदोऽत्यानन्दस्तस्य यद् उद्दाम उत्कृष्टं धर्ममोक्षाख्यं तत्र प्रमत्तः ।
अहर्निशज्ञानध्यानसामायिकपूजादिव्यापारेण जागरूकः । तत्र मोक्षाख्ये व्यापारे भविकजननियोजक इत्यर्थः । एवमेतद् गुणगणसमलंकृतः स प्रसिद्धो मुनिर्धर्मश्च शतं जीयादिति कर्तुराशयः । इति संक्षेपतः सरलैकार्थः । अन्ये च बह्वर्थाः कृता एव प्रकाशिता भविष्यन्ति समयेन ॥ *
* अस्य श्लोकस्याऽन्येऽप्येकपञ्चाशदर्था अनेनैव पण्डितवरेण साहित्याचार्यश्रीमाधवानन्दशास्त्रिणा कृताः सन्ति । तानानन्यत्र पुस्तकरूपेण अम्बालानगर( पंजाब )स्थश्रीआत्मानन्द-जैन-महासभाया व्यवस्थापका हिन्दयनुवादपुरस्सरं प्रकटयिष्यन्ति । जिज्ञासुभिरक्षिलक्षीकरणोयास्त इति संज्ञापयति मुनिश्चरणविजयः॥
.: २१०:.
[ श्री आत्मारामजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org