________________
वीराष्टकम्
[समस्या-कान्ताकटाक्षाक्षतः (क्षताः)]
यः कल्याणकरो मतस्त्रिजगतो लोकश्च यं सेवते ।
येनाकारि मनोभवो गतमदो यस्मै भवः क्रुध्यति ।। यस्मान्मोहमहाभटोऽपि विगतो यस्य प्रिया मुक्तिरमा ।
यस्मिन्स्नेहगतः स नो भवति कः कान्ताकटाक्षाऽक्षतः ।। १ ।। यस्याधृष्यमतं मतं जनहितं सद्धर्मषाणोपलम् ।
नम्रीभूतसुरेन्द्रवृन्दमुकुटे पादच्छलात्सङ्गतम् ।। भव्यरप्यनुगीयमानयशसा व्याक्रान्तलोकत्रयं ।
यस्माद्योऽस्ति नयार्पणां' दधदनेकान्ताऽकटाऽऽक्षाऽक्षतः ।। २।। यस्य प्रे-खदखर्वकांतिमणिभिः प्रोद्योतितामातता
मास्थानावनिभागतेदिविरतैः प्रक्रान्ततूर्यत्रिकाम् ॥ तामालोक्य भवाङ्गभोगनिरता मिथ्यादृशोऽप्यादृताः ।
सम्यक्त्वं विभवं भवन्ति कुनयैकान्ताऽऽकटाक्षाऽक्षताः ।। ३ ।। ये प्राक् त्रासमुपागता मतिहता वाण्याः कृपाण्याः परेऽ
नीतिज्ञानलवोद्धता गतपथास्तत्त्वार्थके २ सङ्गरे ।। निक्षिप्ताः सुनयप्रमाणभुवि ते चेतश्चमत्कारिणो ।
येन ज्ञानसमाहिताः खलु कृताः कान्ताकटाक्षाऽक्षताः ॥ ४ ॥ यस्य प्रार्चनभक्तिचञ्चितमना भेकोऽपि तत्कोपिना ।
देवेन प्रहतोऽप्यभूदमरभूकान्ताकटाक्षाऽऽक्षताः ।। तत् किं यस्य पदार्चने तधियः सामोदभावेन हि ।
जायन्ते भवयोषितां शिवरमाकान्ताः कटाक्षाऽक्षताः ॥ ५ ॥ यस्याद्य" भ्रमरावलीव कमले६ भव्यावलीमन्दिरे ।
सम्फुल्लत्कमलावली परिकनद्दीपावली विन्दती ।। १. नयार्पणां नयविवक्षां दधत् दधानो योऽनेकान्तः एकत्र वर्तमानसत्त्वासत्त्वादिरूपस्तस्य, अकटं-कटति गच्छति
नश्यतीति यावत, कटम (पचाद्यचप्रत्ययः) विनशनशीलं, न कटमकटमविनाशि तच्च तद् आक्षम्, अक्ष
आत्मा, स्वाभाव्येन तत्संबंधि-आक्षं ज्ञानम, अकटाक्षं केवलज्ञानं, तेन अक्षतो व्याप्त इत्यर्थः । २. कुत्सिता नयाः कुनयास्तद्विषयभतस्तद्रपो वा य एकांतस्तस्य, आकटाक्षा:-ईषत्कटाक्षाः (आईषदर्थ)
तैरपि, अक्षताः अविद्धाः भवन्तीत्यन्वयः । ३. तत्त्वं स्वसिद्धान्तः शत्रपक्षे-स्वाभिलाषारूपमर्थः प्रयोजनं यस्य स तस्मिन, संगरे प्रतिज्ञावाक्ये । अत्रेदं ___तात्पर्यम् प्रतिज्ञावाक्यमुपन्यस्यन्तः एव परे त्रासमुपागता, न तु तैः हेत्वाद्युपन्यस्तम्, पक्षे-सङ्ग रे युद्धे । ४. अमरभूः स्वर्गः, तस्याः कान्ता अमराङ्गनाः, तासां कटाक्षः आक्षत:-आ समन्तात् क्षतः । ५. अद्य श्रीवीरभगवतो निर्वाण दिवसे । ६. जलविशिष्ट्रसरोवरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org