________________
...dheshslesedbojashshobstasbshsedesbestbspchshshase cheshtodecadesesediaspechrbsh chsdeshchchschote sectrostheash.costashshashsasasebel२ ५]
नंदस्वरूपाय चिद् ज्ञानमात्मशुभ्रगुणः तस्यानंद सुखं तन्मयं स्वरूपं यस्य तच्चिदानंदस्वरूपं तस्मै ॥ ३ ॥
१०. ते मरा धन्यास्ते के । ये गिरनारगिरेमौलौ मस्तके नेमिनं जिनं नत्वा स्वं स्वकीयं पातकं क्षालयंति । किं लक्षनास्ते ? नरः धृतसम्मदाः धृतः समदो हों यैस्ते धतसम्मदा: ॥ १० ॥
१८. अथेति अथानंतर सर्वे यादवभूपालाः सौराष्ट्रमंडले गताः कस्यिन्सति ? चरित्रं वैष्णवं श्रुत्वा जरासंघे कोपने सति कुद्धे सति ॥ १८ ॥
२५. ते सर्वे सिद्धगंधर्वखेचरा नेमिभुजाबलं जगुर्गायति स्म । किं क्रियमाणा ? चित्रीयमाणा आश्चर्य प्राप्नुवंतः पुनः किं कियमाणाः ? हर्षात् पुष्पाणि वर्षन्तः ॥
३०. सोऽयं नेमिजिनेश्वरो विजयतां । सोऽयं कः ? । यो राज्यं न समीहते न वांछति । किं लक्षणं ? राज्यं । गजधटाघंटारवै राजितं शोभमानं । पुनर्यः अंगनां राजीमतीं न कांक्षति नेच्छति । किं लक्षणां ? चारुचंद्रवदनां । पुनर्लीलावती लीलायुक्तां । पुनर्यः योगींद्रचूडामणीः तीर्थंकराणां शिरोमणी: ॥
३५. एवं मित्रवसंतद्वत्तसकलप्राणोऽपि मन्मथभटो सैन्यैः स्वकैः योगीश्वरं नेमिनं दुर्जयमेव मेने मनति स्म । एवमिति किं ? वृक्षाः पल्लविता लता कुसुमिता भुंगाः सरंगा वने सारं गायति कोकिला कलरवैर्वापीजलं मंजुलं एवं एवं प्रकारेण मित्रवसंसदतसकलप्राणोऽपि ॥
४०. स नेमिर्मुवनत्रयं पुनातु पचित्रीकरोतु । स नेमिः किं लक्षणः ? । श्रीमान् पुनर्किं ? योगीन्द्रः । स कः ? यस्य चित्तं नारीनूपुरझंकारैश्चंचलं न जातं ॥
५६. पौरवनिता नेमि वीक्ष्य राजीमती धन्या इति वदन्ति । इति किं ? । यस्या राजीमत्या वरस्तु नेमिः विवाहे च किंनरी सुमधुरं यथास्यात्तथा गीतं गायति । भारती सरस्वती व.णालया वीणायां लयः अत्यासक्तत्वं यस्याः सा वीणालया । गंधर्वाः श्रुतिधारिणः स्बरपूरकाः । पुनः सुरपते रंभा अप्सरो नरी नृत्यते अतिशयेन नृत्यति । पुनः भंभा-मेरीमृदंग-झल्लारिरवः शब्दो व्योमांगणं गाहते पूरयति ॥
६१. ये नराः सारंगानं श्रुत्वा सारंगलोचनां वशां च विलोक्य ये सारंगाअरंगेण सह वर्तमाना भवंति ते धन्या अथवा आप्तरंगा अर्हद्रंगास्ते सारंगाः साराणि अंगानि येषां ते सारंगा अथवा सारं सद्गुणं गच्छंति सारंगा एवंविधा उच्यते । पुनये नराः सारंगा इव आप्तरंगाः प्राप्तरंगा भवंति ते नराः पशव उच्यते ।
અને ગ્રઆર્ય કાયાાગોnuસ્મૃતિગ્રંથ રચી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org