________________
| अभिनंदनाष्टकम्
प्रणेता प्रो. डॉ. छगनलाल शास्त्री एम.ए. (त्रय), पी.एच.डी.,
काव्यतीर्थ, विद्यामहोदधि, प्राच्यविद्याचार्य.
शान्तचेतासुधी/रः, मान्यः सेव्यो महामुनिः। सुमनः सुमनाः सौम्यः, राजते जगती-तले।।१।। महामान्यस्य शुक्लस्य, मुनीशस्य प्रशिष्यकः। शिष्यश्चैव महेन्द्रस्य, साधुवर्यस्य संयतेः।।२।। द्वयोरादर्श-संश्रेणी, साधयन् वर्धयन् तथा। सुमनोऽयं मुनिश्रेष्ठः, सर्वकल्याणकारकः।।३।। सरलः सस्मितास्यश्च, मृदुलः श्रमणो महान् । धर्मप्रभावकः वाग्मी, लोकमानसबोधकः।।४।। उत्तरे भारते भव्ये, विहत्य धर्मशासनम् । सम्यक् प्रसारयामास, बोधयन् मोदयन् जनान् ।।५।। धन्या पुण्या च सज्जाता, दाक्षिणात्या वसुन्धरा । मुनेः पादाब्ज-संस्पर्शात्, शुभात् धान्मनोहरात् ।।६।। गंभीरो शौर्यसंपृक्तः, जैनसिद्धान्तपारगः। मनस्वी च तपस्वी च, वर्चस्वी दंभवर्जितः।।७।। भ्राजतामेधतां नूनं, शतायुः स्वस्थतामितः। वाञ्छति श्रद्धया नित्यं, डाक्टरश्छगनोहृदा।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org