________________
Abhinavagupta's Ideas in Locana on the Nature of Beauty of Kavya 79 शरीरस्य खलु विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्यवहारः न यस्य कस्यचिदिति चेत्गुणालङ्कारौचित्य सुन्दर शब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः ।
-Locana, p. 59 (i) ''तत्र कवेस्तावत् कीर्त्यापि प्रीतिरेव संपाद्या । श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः" तथापि तत्र प्रीतिरेव प्रधानम् । इति प्राधान्येननानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् । -Locana, pp.40-41
(ii) प्रीतिरेव व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसः
23.
24.
25.
न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव द्वयोरप्येकं विषयत्वात् ।
-Locana, p. 336
कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् तथा हि-- महाकवीनामप्युत्तम देवताविषयप्रसिद्ध संभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्ति तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमारसंभवे देवीसंभोगवर्णनम् । तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसंभोगवर्णनं तत् पित्रोः संभोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवतादिविषयम् । ...
-Dhvanyaloka. pp. 316-334
Dhvanyāloka-vrtti on IV. 5 pp. 529-534,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org