________________
भारतीय दर्शन में आत्म-मीमांसा
३१३
"कायवाङ मन कर्मयोगः" सकषायत्वाज्जीवः कर्मणोयोग्यान् पुद्गलनादत्ते "शुभः पुण्यस्य" "अशुभः पापस्य" इत्यादीनि प्रमाणानि प्रसिद्धान्येव ।
तथा च वृद्धशरीरं प्रति तरुणशरीरं कारणम् । तारुण्यं प्रति च बाल्यशरीरं बाल्यशरीरं, प्रति गर्भात्मकं शरीरं कारणं भविष्यति । तदनन्तरं तद् गर्मरूपं शरीरं प्रति किं कारण रूपं भवितुमर्हति ?
गर्भरूपं शरीरं प्रति पूर्व जन्मनः कार्मणशरीरमेव कारणं भवति, नेतरत् । इदमेव कार्मणशरीरं, पौद्गलिक, सूक्ष्मरूपं च तदेवादृष्टनिर्मितम्, जैनमतेऽदृष्टस्वीकारे परलोक पुनर्जन्मादीनामपि स्वीकारो भविष्यत्येव ।
पौद्गलिकमदृष्टं मूर्तम् जडत्वात् । मूर्तकर्मणा अमूर्तात्मा कथं बध्यते ? अनुग्रहोपघातादिकं च कथं सम्भवति ? यथा अमूर्ते आकाशे मूर्तचन्दनादीनां विलेपनेनानुग्रहस्तथा च खङ्गादिप्रहारेणोपघातादिकमपि न सम्भवति ।
तत्र भवता मयं पक्षोऽपि स्वमतं साधयितु न समर्थः । यतो मूर्त ब्राह्मीमदिरा मदादीनां सेवनेनाऽमूर्त ज्ञानस्यानुग्रहोपघातादिकं प्रत्यक्ष अनुभूयते ।
स्याद्वादमते-आत्मा एकान्तामूर्तोऽपि नास्ति यतोऽनादि कर्म सन्तत्या स परिणामान्तरं गतः । यथोऽग्निनासाकमयपिण्डस्य संयोगः क्षीरनीरवदात्मकर्मणो संयोगेन वात्मापि तद्वत् प्रतिभासते; यथा दुग्धे जलं दुग्धवदेव भासते। अतो मूर्त कर्मणासाकं कथंचिदभिन्नत्वात् (संसारावस्थायाम्) आत्मापि कथंचित् मूर्तत्वेन प्रतिभासते । अन्यथाऽकाश आपत्तिरागमिष्यति । अतः सर्वथाऽमूर्तत्वादाकाशस्योपरि मूर्ता नामनुग्रहश्चोपग्रहो नास्ति । कथंचित् मूर्तामूर्तत्वादेवाऽत्मनि मूर्तकर्मणोऽनुग्रहश्चोपग्रहः सम्भवतीत्यार्हते पौद्गलिका दृष्टत्वमङ्गीकृतम् । यथा चागम प्रमाणम्जीवो अणाइ अणिधणो अविणासी धुओ, निच्चं
-इति भगवत्यागमे । जीवात्मानः कालापेक्षयाऽनाद्यनन्ताः, अर्थात् यस्योत्पत्ति शश्च नास्ति, स एव जीवः । अनुत्पन्नाः पदार्था अनादिसिद्धाः । अनिधन:----निधनं मृत्युः, यस्य मृत्युः (अयः) नास्ति सोऽनिधनः । मृत्यु धर्मो देहस्य न त्वात्मनः । देहात्मनो वियोग एव मृत्युरित्युच्यते । यस्योस्पत्तिः तस्यैव नाशः गीतायामापि "जातस्य ध्र वो मृत्यु" रित्युक्तम् । जन्म ग्रहणे देहोत्पत्तिर्भवति, अतोऽस्यैव क्षयः मृत्यु भविष्यति ।
अविनाशी-आत्मा अविनाशी वर्तते । केनाप्याघात प्रत्याघातेनास्य नाशो नैव भविष्यति ।
अग्निना न दह्यते, न च वज्रण हन्यते, न च पर्वतेभ्यो भिद्यते, छुरिकया न च छिद्यते । अतोऽछेद्या-काट्यादाह्याभेद्यादि स्वभाववानात्मा जिनमते ।
अक्षयः-सर्वदा सर्वस्मिन् कदापि यस्य क्षयोनास्ति स एवात्मा।
"ध्र वो नित्यम्” जह पौद्गलिका: पदार्थाः क्षणिका नाश स्वभावाश्च सन्ति । एक आत्मैव नित्यः । तथा चोत्पादव्ययध्रौव्य स्वभावाद्रव्याः। द्रव्यरूपेणात्मा 'ध्र वो नित्यः।' गुणापेक्षयोत्पन्न स्वभावी तथा च पर्यायदृष्ट्या व्ययःविनाशस्वभावी आत्मा, आर्हत दर्शने । नरदेवतिर्यञ्चनारकादिषु आत्मा जन्म धारयति सा स्थितिः पर्यायरूपोच्यते ।
आत्मतत्त्व स्वीकारे पुनर्जन्म सिद्धिरपि भविष्यति । 'पुनर्जन्मे' ति शब्दे पुनः जन्म च इति द्वौ शब्दौ । जन्मनि मृत्योरनन्तरमग्निसंस्कारे देहस्य विलयो जात । अतः यद्यात्मा नाङ्गीक्रियते चेत् पुनः चेतनागमनं नावलोक्यते। अत आत्मन एव पुनर्जन्माङ्गीकरणीयम् ।
आधुनिक विज्ञानस्य प्रयोगशालायामपि 'क्रायोबायोलोजि' इत्याख्यायां नवीनायां पद्धत्यां मृत शरीरे चेतनापूर्ते प्रयत्नानि प्रचलन्ति, परमेतन्न-भूतं न भविष्यति ।
तथा चाहतरात्मनः संकोचविकासशीलत्वं गुणत्वेन स्वीक्रियते । यथा विस्तृते कक्षे प्रदीपस्य प्रदेशा-विस्तारण तिष्ठन्ति सङ्क चिते लघुकक्षे तस्यैव दीपस्य प्रदेशास्तस्मिन् लघुक्षेत्रे तिष्ठन्ति, तथैवात्मनि संकुचितत्वं विस्तृतत्वं चास्ति । अतः कुञ्जरसदृशे दीर्घकाये य आत्मा तिष्ठति स एवात्मा जन्मान्तरे कीटिकामक्षिकादीनां शरीरेऽपि स्थातु शक्नोति ।
इत्यात्म-मीमांसा भारतीये दर्शने सन्दर्भ स्थल१ जीवाजीवा य बंधो य, पुण्णं पावासवो तहा।
संवरो निज्जरा मोक्खो, संते ए तहिया नव ।।-उत्तराध्ययन २८११४ २ गुणपर्यायवद् द्रव्यम् । .
नामप्याता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org