________________
प्रथम खण्ड : श्रद्धार्चन
१३३
को न यति वशंवदोऽस्य विकासिनस्तु समन्ततः, तत्त्वराशिभृतो गुणस्य नु पुष्करस्य महामुनेः । वाग्मिता विशिनष्टि तं व्यतिकृत्य नाम बृहस्पतिम्,
केवलं त्रिदिवौकसोऽपि वशंवदाः पुनरस्तिकिम् ॥६२।। अद्य ये मुनयो भ्रमन्ति विहाय सङ्घमिमं मुनेः, स्वीयसाधुगणं समेत्य विवेचयन्ति गुणं स्वकम् । किन्तु सङ्घबहिर्गता अपि सङ्घभावमुपासते,
__श्रावकेषु विषं वपन्त्यत एव सिद्ध यति पुष्करः ॥६३।। आत्मसाधुगणे वसन्नपि साधुसङ्घमुपैति यः, श्रेष्ठसाधुगणे स्थितोऽपि च सङ्घदेवमुपाश्रितः। सङ्घदेवशुभाज्ञयव दधाति कार्यकलापकम्,
सोऽस्ति मध्यममार्गगामिषु सङ्घसाधुषु पुष्करः॥६४।। श्रावका बहवो भवन्ति विचारका अपि धार्मिका:, धर्मदेवसमान् गुरूनपि तान्मुनीननुयान्ति ते। किन्तु ते मनसि स्मरन्त इवापि सङ्घविशेषताम्,
आश्रिताः स्वगुरून् मुनीननुयान्ति पुष्करमीश्वरम् ॥६५।। अस्ति कापि विशेषता तत एव ते प्रणमन्ति तम्, श्रावका मुनिराजराजिषु शोभिनं मुनिपुष्करम् । पुष्करं मुनिमेव ते प्रथयन्ति सिद्धिमुपागतम्,
ते पुनश्च समर्थयन्त्यपि साधुभेदनिरर्थकम् ॥६६।। विस्मयं मनुजा: सदानुभवन्ति धार्मिकवृत्तयः, तस्य कारणमस्ति यन्मुनयो मुनीनपि भेदतः। चिन्तयन्ति तदन्यथेति तु किन्तु पुष्करको मुनिः,
सर्वदा च प्रशंसते गुणिनो मुनीनपरानयम् ॥६७।। भक्तभावनया स्वयं सततं जयन्ति जयाय तम्, पुष्करं मुनिपुष्करं हि जनाः सदानतमस्तकाः । किन्त्वयं मुनिरेव ताननुमोदयंस्तु जयाय नः,
ते भवन्तु मुनीश्वरा जयिनो जिनेश्वरधर्मिणः ।।६।। अस्य तत्त्वमत किमस्त्विति चेतसि च्युतचेतसः, चिन्तयन्ति निरन्तरं मुनयो विदन्ति न तेऽपरे ।
कारणं यशस: किमस्ति तु पुष्करस्य महामुनेः,
__ अन्तत: कथयन्ति ते यश एव दोष इवास्ति नः॥६६॥ हर्षपूर्णपरेण यो मुनिरेव तेन जनानिमान, भावभूतिभरेण कारणकेन साकमिहाचरन् । क्रीतदासविभाववृत्तिरिवायमेति तदा स्वयम्,
पुष्करस्य मुनेर्न कोऽपि तु वर्णयेदनुवर्णनम् ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org