________________
२५८
Jain Education International
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड
The ‘Viśākhayupa' is described at two places ; Sättvata Samhitā (Chapter 4: 7-20 and 31-34) and Laksmi Tantra (Chapter 11 : 1-19) as follows :
ब्रह्मयुपस्वरूपेण वाक्रम्य स्वं महामते। सौम्यमूतिचतुष्कं तु सर्वदिषत्रसृतं च यत् ॥ ७ ॥ प्राच्यां सितेन वपुषा सूर्यकान्त्वाधिकेन तु व्यक्तिमध्येति भगवान् वासुदेवात्मना स्वयम् ॥ ८ ।। पद्मरागसमानेन तेजसा समनन्तरम् । उदेति दक्षिणस्यां वै प्रभुः संकर्षणात्मना ॥ & ॥ धर्मांशु रश्मिसंतप्तशतधामाधिकेन तु । रूपेण पश्चिमस्यां च व्यक्तं प्रद्युम्नसंज्ञया ॥ १० ॥ शरद्गगनसंकाशवर्णेन परमेश्वरः । समास्त उत्तरस्यां चाप्यनिरुद्धात्मना ततः ॥ ११ ॥ संस्थानमादिमूर्त सर्वेषां तु समं स्मृतम् सूर्यकोटिप्रभाः सर्वे तेजसा कमलेक्षणाः ।। १२ ।। ....तथा भिन्नतनोर्मन्यं देवस्यास्य महात्मनः । विशाखयूपसंज्ञस्य वक्ष्ये विद्याविवेदकम् ॥ २० ॥ ...नानामंत्रस्वरूपेण ह्यादिदेवः परो विभुः आदिमध्यावसानेषु स्थितस्सर्वस्य सर्वदा ॥ ३१ ॥ चतुर्व्यूहचतुष्के स्वे शांतादि व्यक्तलक्षणे । प्राधान्येन त्रयानां च देवानामवतिष्ठते ॥ ३२॥ यथाम्बरस्थस्सविता त्वेक एव महामते । जलाश्रयाणि चाश्रित्य बहुत्वं संप्रदर्शयेत् ||३३|| एवमेकोऽपि भगवान् नानामंत्राश्रयेषु च । तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ।। ३४ । ।
।
- सात्वत संहिता अ. ४. व्याप्तमनिरुद्धोन्तिमेवतु ॥६॥
तुर्यादिजाग्रदन्तं यत्प्रोक्तं पदचतुष्टयम् । वासुदेवादिना तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा अन्यस्तव्यस्तस्यैः स्वैरुदितं ते यवोदितम् ||१०|| व्यूहाद्व्यूहसमुत्पत्ती पदाद्यावत्पदान्तरम् । अन्तरं सकलं देशं संपूरयति तेजसा ॥ ११॥ पूजितस्तेजसा राशिरव्यक्तो मूर्तिवर्जितः । विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिवृ हितः ॥ १२ ॥
तस्मिंस्तस्मिन् पदे तस्मात् मूर्तिशाखाचतुष्टयम् । वासुदेवादिकं शक्र प्रादुर्भवति वै श्रमात् ॥ १३ ॥ एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने । स्वप्नात्पदाज्जाग्रदन्ते तेजसः पूज्यते महान् ||१४|| विशाखयूपी भगवान् देवस्तपसां निधिः । तुर्याचे स्वप्नपर्यन्ते चातुरात्म्यषिके हि यत् ॥१५॥ रासदैश्वर्यसंपन्न षाड्गुण्यं सुव्यवस्थितम् । तदादायाखिलं दिव्यं शुद्धसंवित्पुरस्सरम् ||१६| विभजनात्मनात्मान वासुदेवादिरूपतः । पुनविभयवेलायां विना मूर्तिचतुष्टयम् ||१७|| ।।१७।। विशालप एवैष विभवान्भावयत्युत । ते देवा विभवात्मानः पद्मानाभादयो मताः ॥ १८ ॥
-लक्ष्मीतंत्र अ. ११.
In the edition of Lakṣmitantra, by V. Krishnammacharya published by the Adyar Library, he has given a precis of the description of Visakhayupa in prose, which runs as under: अस्ति वैकुण्ठेऽप्राकृतलोके विशाखयूपो नाम ध्वजस्तंभाकारः कश्चन तेजोरूपी भगवन्मयः स्तंभविशेषः । स च ब्रह्मयूपनाम्नाऽप्याख्यायते । तत्राधः प्रदेशमारभ्योपर्युपरि चत्वारो भागाश्चतुरक्षा वर्तन्ते प्रतिभागं चतु स्वपि पार्श्वेषु भगवान्पर वासुदेव वासुदेवसंकथंणप्रद्युम्नानिरुद्धरूपेण श्रमेण प्रागादिदिश्ववतिष्ठते । तत्र प्रथमो भागः जाग्रत्पदाभिमानी अनिरुद्धप्रधानः । तत्र ते व्यूहदेवाः स्पष्टदृश्यरूपायुधवाहनमहिष्यादि परिच्छदा भान्ति । एते च जाग्रत्पदस्थोपासकानुग्रहाय तथा प्रकाश्यन्ते । तदुपरि द्वितीयो भागः स्वप्नस्थानाभिमानी प्रद्युम्नप्रधानकः । तत्र ते व्यूहदेवाः अस्पष्टदृश्यमलिनप्रायैः आयुधवाहनमहिष्यादि परिच्छदैर्वर्तन्ते । एते च स्वप्नपदस्थोपासकानुग्रहाय तथा वर्तन्ते । तदुपरि तृतीयो भाग: सुषुप्तिस्थानाभिमानी संकर्षणप्रधानो रेखामात्र दृश्यायुधादि परिच्छदैर्देवैरध्यासितः । एते च सुषुप्तिपदस्थोपासकानुग्रहाय तथा वर्तन्ते । तदुपरि तुरीयस्यानाभिमानी वासुदेवप्रधानोऽत्यन्तादृश्यायुधादिपरिच्छदः शून्यकरध्यासितश्चतुर्थीभागः । एते च तुरीयमपदस्थोपासकानुग्रहाय तथा वर्तन्ते । अतो जाग्रदादिपदस्थोपासकाधिकारानुगुण्येन व्यूहदेवास्तथा वर्तन्ते । ऐतादृणविशालबूपास्यानिरुद्धादेव पद्मनाभादयो विभवा अवतीर्णा इति ।
- लक्ष्मीतन्त्र, प्रस्तावना, पृ. २५
For Private & Personal Use Only
The passage could be rendered in English as under :
In the supra-material region otherwise called Vaikuntha, there stands a pillar called Visakhayupa, resembling in shape to a flag staff. (It is also known as Brahmayupa). It is divided into four sections-lengthwise i. e., from the bottom to the top and has four sides directionwise i.e., facing the four quarters – East, South, West and North. Lord Para-Vāsudeva entirely pervades
www.jainelibrary.org