________________
૭૮: શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ચર્થી
स्तोत्रं चैत्रगुणोदयस्य विरहिप्राणप्रयाणानकष्टंकारः स्मरकार्मुकस्य सुदृशां शृङ्गारदीक्षागुरुः । डोला केलिकलासुमङ्गलपदं बन्दी बनान्तश्रियां नादोऽयं कलकण्ठकण्ठकुहरप्रेखोलितः श्रूयते ॥
श्रीपालकविराजस्य ।
( ५२५६ति 'माथा) मन्दोऽयं मलयानिलः किसलयं चूतद्रमाणां नवं माद्यत्कोकिलकूजितं विचकिलामोदः पुराणं मधु । बाणानित्युपदीकरोति सुरभिः पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगपत्संमोहसम्पादितः ॥
श्रीपालकविराजस्य ।
('प्रमोश'भांथा) हे विश्वत्रयसूत्रधार भगवन् कोऽयं प्रमादस्तव न्यस्यैकत्र निवेश यस्य परतस्तान्येव वस्तूनि यत् पाणिः पश्य स एष यः किल बलेर्वाक सैव पार्थस्य या . चारित्रं च तदत्र यद रघुपतेश्चौलुक्यचन्द्रे नृपे॥ मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गी त्यज रे कालिन्दि तवाफला कुटिलता रेवे रवस्त्यज्यताम् । श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ।।
('मान्यरित'माथी) इह निवसति मेरुः शेखरो भूधराणामिह विनिहितभाराः सागराः सप्त चान्ये । इदमहिपतिदम्भस्तम्भसंरम्भधीरे धरणितलमिहैव स्थानमस्मद्विधानाम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org