________________
७. २.j
नयाभासलक्षणम् । . . (टि०) नायमिति अर्थंकदेशो न वस्तु नावस्तु किन्तु वस्त्वंश एव। यथा समुद्रकल्लोलो न
समुद्रो नासमुद्रः । तन्मात्रस्येति कल्लोलमात्रस्य । (शेषांशस्य) शेषांशानामिति अपरकल्लोलानामसमुद्रत्वमेक एव कल्लोलः समुद्रः । अपरे सर्वे वा समुद्राः । अन्यथा सर्वतरङ्गाणां प्रत्येक पारावारत्वे समुद्रेयत्ता प्रलयपदवीमधिरोहति । तत्त्वे इति नाप्यसमुद्रः यतोऽसमुद्रत्वे । समुद्रविदिति कस्मिंस्तरङ्गे समुद्रज्ञानं भवतु । यदि एकस्तरङ्गोऽसमुद्रोऽपरोऽप्य समुद्रः, तृतीयोऽप्यसमुद्रः, समुद्रत्वं क्वापि न स्यात् । समुद्रस्य कल्लोलमयत्वादिति भावः । विच्छब्देन सम्बन्धवलादत्र ज्ञानमेव प्रतिपत्तव्यं न तु ज्ञाता पुमान् । किं तहीत्यादि । ताहगिति वस्त्वंशप्रत्ययस्य वाधकप्रमाणाभावात् ॥१॥ . नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुः
....... स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ . १ पुनः शब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा · दुर्नय इत्यर्थः । यथा तीथिकानां नित्यानित्यायेकान्तप्रदर्शकं सकलं वाक्यमिति ॥२॥
નયનું સામાન્ય લક્ષણ કહીને નયાભાસનું લક્ષણ જણાવવા માટેનું કથન–
જે અભિપ્રાય પોતાને અભિપ્રેત (ઈષ્ટ) અંશ (ધર્મ)ને અંગીકાર કરીને અન્ય અંશોને અર્થાત ધર્મોને અપલાપ કરે-નિરાસ કરે તે નયાભાસ (દુર્નય) કહેવાય છે. ૨
g૧ અહીં સૂત્રમાં “પુનઃ' શબ્દ નથી પૃથગુભાવને જણાવનારો છે. નયાભાસ-નય પ્રતિબિસ્માત્મા (નય નહિ પણ નયના જે) દુનય. જેમકે–અન્યતીથિ કે એકાન્ત નિત્ય કે એકાન્ત અનિત્ય વિગેરે જણાવનાર “સમસ્ત વાક્ય प्रयाग मे हुनय छे. २ . - (०) तद्दशयितुमिति नयसामान्यलक्षणं दर्शयितुम् । . (पं०) वाक्यमिति नयाभास इत्यर्थः ॥२॥ (टि०) नयसामान्येत्यादि । तदिति लक्षणम् ॥२॥ नयप्रकारसूचनायाहुः- .
स व्याससमासाभ्यां द्विप्रकारः ॥३॥ १ स प्रकृतो नयः व्यासो विस्तरः, समासः संक्षेपस्ताभ्यां द्विभेदः, व्यासनयः समासनयश्चेति ॥३॥ . व्यासनयप्रकारान् प्रकाशयन्ति
__ व्यासतोऽनेकविकल्पः ॥४॥ एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्ताशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तॄणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्याऽनेकप्रकारत्वमुक्तम् ॥४॥