________________
प्रमाणनयतत्त्वालोकसूत्राणि
अष्टमः परिच्छेदः
[तृतीयो भागः] १. विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधन
दूषणवचनं वादः । १०४ २. प्रारम्भकश्चात्र जिगीपुः तत्त्वनिर्णिनीषुश्च । १०७ । ३. स्वीकृतधर्मव्यवस्थापनार्थ साधन-दूषणाभ्यां परं पराजेतुमिन्छुजिंगीपुः । १०९ ४. तथैव तत्त्वं प्रतितिष्ठापयिपुस्तत्वनिर्णिनीपुः । १०९ ५. अयं च द्वेधा-स्वात्मनि परत्र च । १०९ ६. आद्यः शिष्यादिः । १११ ७. द्वितीयो गुर्वादिः । १११ ८. अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च । १११ ९. एतेन प्रत्यारम्भकोऽपि व्याख्यातः। ११३ १०. तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये
जयपराजयव्यवस्थादिदौःस्च्यापत्तेः । ११५ ११. द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः कदाचित् व्यङ्गः। ११७ १२. तत्रैव द्वयनस्तुरीयस्य । ११८ १३. तृतीये प्रथमादीनां यथायोगं पूर्ववत् । ११८ १४. तुरीये प्रथमादीनामेवम् । ११८ १५. वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि । १६. प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ । १२० १७. प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । १२० १८. वादिप्रतिवादिसिद्धान्ततत्त्वनदीप्णत्वधारणावाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभया.
भिमताः सम्याः । १२१ १९. वादिप्रतिवादिनोर्यथायोग वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवाद
निर्देशः, साधकबाधकोक्तिगुणदोषावधारणं, यथावसरं तत्त्वप्रकाशनेन कथा
विरमणं, यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि । १२३ २०. प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः । १२४ ।। २१. वादिसम्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म । १२५ २२. 'सजिगीपुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् । १२६ २३. उभयोस्तत्त्वनिर्णिनीपुत्वे यावत् तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यम् । १४२