________________
प्रमाणनयतत्त्वालोंकसूत्राणि
प्रथमः परिच्छेदः
[ प्रथमो भार्गः]. १. प्रमाण-नयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते । पृ० १३ २. स्वपरव्यवसायि ज्ञान प्रमाणम् । ३० ३. अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम् , अतो ज्ञानमेवेदम् । ४२ ४. न वै सन्निकर्षदिरज्ञानस्य प्राणाण्यमुपपन्नम् , तस्यार्थान्तरस्येव स्वार्थव्यवसितौ .. साधकतमत्वानुपपत्तेः । ४३ . ५. न खल्वस्य स्वनिर्णीतौ करणत्वम् , स्तम्भादेरिखाचेतनत्वात् । ४४ ६. नाप्यर्थनिश्चिती, स्वनिश्चितोवकरणस्य कुम्भादेरिव तत्राप्यंकरणत्वात् । ४४ ७. तद् व्यवसायस्वभावम् समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा । ४९ ८. अतस्मिस्तध्यवसायः समारोपः । ६३ ९. स विपर्ययसंशयानध्यवसायभेदात् त्रेधा । ६४ १०. विपरीतैककोटिनिष्टङ्कनं विपर्ययः । ६४ ११. यथा शुक्तिकायामिद रजतमिति । ६४ १२. साधकबाधकप्रमाणाभावादनवस्थितनिकको टिसस्पशि ज्ञान संशयः । ७४ १३. यथाऽय स्थाणुर्वा पुरुषी वो । ७६ १४: किमित्यालोचनमात्रमनध्यवसायः । ७६ १५. यथा गच्छत्तणस्पर्शज्ञानम् । ७६ १६. ज्ञानादन्योऽर्थः परः । ७६ . ९.७, स्वस्य व्यवसायः स्वाभिमुख्येनं प्रकाशनम् , बाह्यस्येव तेदाभिमुख्येन, करिकल
भकमहमात्मना जानामि । ९९ १८. कः खलु ज्ञानस्याऽऽलम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभि
मन्येत, मिहिरालोकवत् ! १०० १९. ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् । १०९ . २०. तदितरत्त्वप्रामाण्यम् । १०९ २१, तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च । ११०