________________
- कर्तुः प्रशस्ति। तस्यास्मि प्रियनिष्योऽहं सूरिः श्रीराजशेखरः । विद्वत्प्रसादतो ग्रन्थप्रथनारब्धपौरुषः ॥५॥ सोऽहं मोहतमःस्तोमविहस्तजनदीपिकाम् । पञ्जिकां रचयामास विनेयजनरज्जिकाम् ॥६॥ दोषः कश्चन योऽत्राभूत् मम प्रातिभमान्यतः । दूरे कार्यः स धीमद्भिः कुर्वाणैर्ममतां मयि ॥७॥ पुष्पदन्ताविमौ दीपौ यावद् द्योतयतो 'जगत् । तावन्नन्द्यादयं ग्रन्थो विदग्धजनवल्लभः ॥८॥॥'
(टि०) - दुष्टव्यन्तरवादीन्द्रसर्पदम्वुजाम्बुदः ।
जीयाद् विजयसिंहः श्रीसाधुराकाविधुगुरुः ॥१॥ तमोध्वंसितपस्तेजोविमलीकृतभूतलः ।। अभूदभयदेवाख्यः सूरिस्तत्पट्टमण्डनम् ॥२॥ श्रीचन्द्रसूरिर्भवमोहमू विध्वंसनोत्सिततपःप्रभावः । साहित्यतर्कागमपारदृश्वा श्रीदेवसूरिः सुरसार्थनुत्यः ॥३॥ श्रीसाधुपूर्णिमागच्छश्रीभालतिलकप्रभः । वुद्धया जितमरुत्सूरिः सूरिः श्रीतिलकप्रभः ॥१॥ . कवित्वे रसनिःष्यन्दे कविनाऽप्यजितप्रभः । प्रमाणागमनिष्णातस्ततोऽभूदजितप्रभः ॥५॥ जयी ततः श्रीकनकप्रभाख्यः सूरिः सदा सद्गुणबद्धलक्षः । मारान्तकृत् प्रोज्ज्वलशीलभल्लः कृपाकृपाणाहतकोपमल्लः ॥६॥ तयानलीनोऽस्तु गुणैरहीनो यशोभिभूरिर्गुणचन्द्रसूरिः । जयाङ्कराजी बहुभव्यराजीपयोजहेलिः श्रितधर्मकेलिः ॥७॥ रत्नाकरावतारिकावरटिप्पनं तज्ज्ञानेन्दुरत्पतरधीः स्वमतिप्रवृद्धये । तच्छिष्यको रचितवान् मलधारिपूज्यश्रीराजशेखरगुरोश्च निदेशमाप्य ॥४॥ श्रीराजशेखरगुरुगरिमानिधानं तांगमाम्बुधिमहार्पजलाभिलाषी । मद्वाक्यजातमखिलं तदनल्पदोषं निर्दूषणं व्यधित सत्प्रतिभामितश्रीः ॥९॥ यद्यपि किञ्चिन्यून ज्ञानाभावान्मया भवति रचितम् । तरछोध्यं विवुधजनैर्मयि कुर्वाणैः कृपामुच्चैः ॥१०॥ संवत् १४७६ वर्षे भाद्रबा वदि १० ॥ लिखितं महिराज ।।
पं० शान्तिमूर्तियोग्यम् । लिषित्वा तस्य ॥ श्रीः ॥ १ समाप्ता संवत् विष्टपशिपिविष्टदृष्टिविशाखमुखशिशिराभीश्रुपरिमितपरवाणी (सं० १६३६ वर्षे) वैशाखवदि ११ वासरे रविवारे ॥ श्रीमबृहत्तरखरतरगच्छाभीशश्रीजिनभनसूरिपदकुमुदचन्द्र-श्रीजिनचन्द्रसूरिभूरिगुणमणिसमुद्रश्रीजिनसमुद्रसूरिपट्टोदयाचलचूलालंकरणहंसश्रीजिनहंससूरिराजानां शिष्यमुख्यधीपुण्यसागरमहोपाध्यायपदपुण्डरीकचञ्चरीकेण पनराजमुनिना . लिखितेयं स्ववाचनाय । श्रीमज्जेसलमेरुमहादुर्गे ॥श्रीरस्तु ॥छ। ल । २ मात्र छन्दोमनः ।
१९