________________
ī
८४ आत्मविशेषगुणोच्छेदरूपमुक्तिवादिनां वैशेपिकानां पूर्वपक्ष: ।
[ ७.५६
જાણનાર' ઇત્યાદિ કથનથી તમે જે ઉપાલભ આપે છે તે કઇ રીતે શેશભશે ? એટલે નિશ્ચય નયથી જેમ કાય ને ઉત્પન્ન કરનારી ક્રિયા જ ક્રિયા છે તેમ નિશ્ચય નયથી જ્ઞાન વિષે પણ છે. માટે કાઈ ઠેકાણે વ્યભિચાર ન હોવાથી સમ્યજ્ઞાન અને સમ્યક્રિયા ઉભય લેત્પત્તિમાં અનુકૂલ કારણ છે એમ સમજવું,
९७ अथ भवत्वेतत्कारणिका मुक्तिः, तथापि बुद्ध्यादीनां नवानामात्मविशेषगुणानां योऽत्यन्तमुच्छेदः, तद्रूपैव स्वीकर्तव्याः न पुनर्निःशेषकर्मक्षयलक्षणा । तथा चानुमानम् - नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुछियते, सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानः, तथा चायम्, तस्मादत्यन्तमुच्छियत इति ।
" न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ", " अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः इत्यादयो वेदान्ता अपि तादृशीमेव मुक्तिमादिशन्ति ।
"
अपि च
-
" यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥ १॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ||३|| इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ||४|| तदेवं धिपणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्टितः || ५ | ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? | स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥६॥ ऊर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् । "
ऊर्मयः कामक्रोधमदगर्वलोभदम्भाः ।
" प्राणस्य क्षुत्पिपासे हे मनसः शोकमूढते । जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः " ॥१॥
इति तु पुराणे ॥