________________
७. ५६]. .. आत्मन उ रितभोक्तृत्वनिरसनम् । - હ૧૧ સાંખ્ય–આત્માનું ભકતૃત્વ પણ ઔપચારિક છે, કારણ કે પ્રકૃતિના
વિકારરૂપ દર્પણાકાર બુદ્ધિમાં સંક્રાત થયેલ સુખ-દુઃખાદિનું પુરુષને પિતાને વિષે પ્રતિબિંબ-છાયા પડવા માત્રથી તે ભક્તા કહેવાય છે.
જૈન–આ કથન પ્રશંસનીય નથી, કારણ કે તેવા પ્રકારના પરિણામ વિના આત્મામાં પ્રતિબિંબની ઉત્પત્તિ ઘટતી નથી. સ્ફટિકાદિમાં પણ પરિણામને કારણે જ પ્રતિબિંબોદયનું સમર્થન કરવામાં આવે છે અને તેવા પ્રકારનો પરિણામ આત્મામાં માનવા જતાં તે આત્માનું કતૃત્વ કેમ સિદ્ધ નહિ થાય ? આ પ્રમાણે આત્મામાં કત્વ અને સાક્ષાદ્ધોકતૃત્વ સિદ્ધ થયું. ' (पं०) ननु भोक्तृत्वमपीत्यादि परः ।। .. (५०) उपचरितमेवास्येत्यतोऽप्रे यत इति गम्यम् । दर्पणाकारायामिति उभयमुखदंपै.
णाकारायाम् । तदशस्यमित्यादि सूरिः ।। .. (टि०) अस्येति आत्मनः । तस्येति भात्मनः । तथेति सुखदुःखादिपरिणामं विना । अस्येति प्रतिपन्नस्यात्मनः ।
....६ १२ स्वदेहपरिमाण इत्यनेनाऽपि नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो . निषिध्यते, तथात्वे जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसङ्गात् सर्वगतात्मन्येकत्रैव
नानात्मकार्यपरिसमाप्तेः सकृन्नानामनःसमायोगो हि नानात्मकार्यम् , तच्चैकत्रापि युज्यते, नभसि नानाघटादिसंयोगवत् एतेन युगपन्नानाशरीरेन्द्रियसंयोगः प्रतिपादितः । युगपन्नानाशरीरेण्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिः, विरोधादिति चेत् । न, युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसङ्गात्, तद्विरोधस्याविशेषात् । तथाविधशब्दकारणभेदाद् न तदनुपपत्तिरिति चेत्, सुखादिकारण
भेदात् तदनुपपत्तिरप्येकत्राऽऽत्मनि मा भूदु, विशेषाभावात् । विरुद्धधर्माध्यासादा- त्मनो नानात्वमिति चेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोप इति
चेत्, तत एवात्मन्यप्यदोषः।जननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मवहुत्वं साधयेत्, एकत्राऽपि तदुपपत्तेः, घटाकाशादिजननविनाशादिवत् ; न हि घटाकाशस्योत्पत्तौ घटाकाशस्योत्पत्तिरेव, तदा विनाशस्यापि दर्शनात् ; नापि विनाशे विनाश एव, जननस्यापि तदोपलम्भात्, स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बन्धे न मोक्षः, सति वा मोक्षे न बन्धः स्यात्, एकत्रात्मनि विरोधादिति चेत् । न, आकाशेऽपि सति घटबन्धे घटान्तरमोक्षाभावप्रसङ्गात् , सति वा घटविश्लेषे घटान्तरविश्लेपप्रसङ्गात् । प्रदेशभेदोपचाराद् न तत्प्रसङ्ग इति चेत् , तत एवात्मनि न तत्प्रसङ्गः । नभसः प्रदेशभेदोपगमे जीवस्याऽप्येकस्य प्रदेशभेदोऽस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था ? यतो व्यापकत्वं स्यात् । . .