________________
आगमस्य पार्थक्यम् ।
ज्ञापने । इयमिति संवित्तिः । तस्येति नालिकेरद्वीपवासिनः । तत्प्रतीतिरिति पनसार्थपरिज्ञानम् । अथेति परवाक्यम् । एतादृशसंवेदनमिति पूर्वसंवित्तिसहायम् । यदपेक्षायामिति व्याप्त्यपेक्षायाम् । कुटेत्यादि सूरिः। किं न तथेति किं नानुमानमित्यर्थः । किं न तथेत्यग्रे किमितीति गम्यम् । तत्राऽपीति कूटाकूटविवेकप्रत्यक्षेऽपि । व्याप्त्युल्लेखस्वरूपत्वादिति अनुमानत्वं प्राप्नोतीति भावः
अथ व्याप्तेरित्यादि परः । तदपेक्षायमिति व्याप्त्यपेक्षायाम् । एतदिति प्रत्यक्षम्। अनुमानमिति अनुमानरूपत्वमेव दर्शयति । तथाविधविशेषेत्यादि प्राक्संकेतितं ज्ञेयम् । एतदेवेत्यादि सूरिः । अन्यत्रापीति आगमेऽपि ।
शब्देऽपीति प्रत्यक्षे इव तथाविधे शब्दे व्याप्त्यपेक्षा नास्तीत्यर्थः । शब्दश्रवणे इति शब्दश्रवणे सति । अयमपीति अनुभूयमानः । एवं चेत्यादिना आचार्य एव प्रपञ्चयति । सिद्धसाध्यतेत्यग्रे कथमिति गम्यम् । अनुमानरूपतयेति अनभ्यासदशायाम् । अन्यथेति तत्रापि व्याप्तिग्रहणापेक्षायाम् । हेतोरिति भवदीयस्य ।
टि.) तद्विवेके इति' कूटाकूटकार्षापण विचारदक्षताम् । अपरीक्षकस्येति परीक्षानभिज्ञस्य । अयमिति उपदेशः । तत्प्रतिपादके इति पनसशब्दवाच्यार्थप्रतिपादने । पटीयानिति प्रकृष्टः पटुः पटीयान् । “गुणादिष्ठेयन्सौ वा" [ कातन्त्रे नाम्नि च० २।६।४० वृत्तौ पृ० १३५] ईयन्सप्रत्ययः। "तद्वदिष्ठेमेयस्य वहुलम्" [कातन्त्रे आख्याते ३।२।१२ वृत्तौ पृ० १७३ ] उकारलोपः। इयमिति संवित्तिः । तस्येति नालिकेरद्वीपवासिनः। तत्प्रतीतिरिति पनसवाच्यार्थप्रतीतिः। तदपेक्षायामिति व्याप्त्यपेक्षायाम् । तथेति कथं नानुमानम् । तत्रापीति कूटाकूटकार्षापणप्रत्यक्षेपि । तथाविधेति शब्दस्यार्थमभिव्यञ्जयतो यादृश उपदेशस्तादृश उपदेशः कूटकार्षापणप्रत्यक्षेऽपि समस्तीति भावः ।
एतदिति कूटाफूटकार्षापणप्रत्यक्षम् । तदपेक्षायामिति व्याप्त्यपेक्षायाम् ॥ अन्यत्रापीति शन्देऽपि।
एवं च पक्षेत्यादि ॥ वाचकानामिति शब्दानाम् । विवादास्पदमिति अभ्यासदशापन्नः ॥ तद्विभिन्नेति अनुमानव्यतिरिक्तसामग्रीकत्वात् ।
६६ किंच । वाचामनुमानमानतामातन्वानोऽसौ कथं पक्षधर्मतादिकमादर्शयेत् ? । चैत्रः ककुदादिमदर्थविवक्षावान् , गोशब्दोचारणकर्तृत्वात् , अहमिव-इतीत्थमिति चेत् । नन्वतो विवक्षामात्रस्यैव प्रतीतिः स्यात् । तथा च कथमर्थे प्रवृत्तिर्भवेत् ? । विवक्षातोऽर्थसिद्धिरिति चेत् । मैवम् । अस्यास्तव्यभिचारात् , अनाप्तानां अन्यथाऽपि तदुपलब्धेः । अथ यथाप्तोक्ताच्छब्दात् तथाऽऽप्तविवक्षातोऽर्णैवार्थसिद्धिभविष्यतीति चेत् । सत्यम् । किन्त्वप्रतीतिपराहतैवेयं परम्परा, शब्दश्रुतौ सत्यां प्रतीत्यन्तराव्यवहितस्यैव अर्थस्य संवेदनात् , यथा लोचनव्यापारे सति रूपस्य । अपि च, अप्रातीतिकैतादृकल्पनामहापातकं क्रियतां नाम, यदि नान्या गतिः स्यात् । अस्ति चेयम्, शब्दस्य स्वाभाविकवाच्यवाचकभावसंबन्धद्वारेण अर्थप्रत्यायकत्वोपपत्तेः । एतच्च "स्वाभाविकसामर्थ्यसमयाभ्यां-' [ ४. ११ ] इत्यादि सूत्रे निर्णेष्यते ॥२॥
१ तद्विवेककौशलमिति- डे३ । २ मूले 'स्पदः-इति पाठः । ३ यथा प्रोक्ता मु । ४ क्षाऽतो मु।