________________
४. २.]
आगमप्रमाणस्य पार्थक्यम् । तदपीति आप्तवचनमपि । अनन्योपायेति । आप्तवचनप्रकार परित्यज्य केनाप्यपरेणोपायेनागमो न सिद्धयतीत्यर्थः ।
तत्रेति शब्दस्यानुमानसाधकेऽनुमाने । हेतोरिति व्याप्तिग्रहणेनेत्यादिकस्य । 'आमुखे इति अनुमानप्रारम्भे । तथाभूतस्येति व्याप्तिग्रहणवलेनार्थप्रतिपादकस्य । तत्प्रत्यक्षस्येति कूटाकूटकार्षापणप्रत्यक्षस्य । अन्यत्रापीति शव्देऽपि जानीहि । एवं तहीत्यादि । तदर्थसंवित्तिरिति पनसशब्दवाच्यपदार्थज्ञानम् ।
६३ अथ यावानेतादृशविशेषसमाकलितकलेवरः कार्षापणः, तावानशेषः कूटोsकूटो वा निष्टकनीयस्त्वया-इत्युपदेशसाहायकापेक्षं चक्षुरादि तद्विवेके कौशलं कलयति, न चापरीक्षकस्यायं प्राक् प्रावर्तिप्टेति चेत् । तर्हि शब्दोऽपि यावान् पनसशब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायः तत्प्रतिप दने पटीयान् । न च नालिकेरद्वीपवासिनः प्रागियं प्रादुरासीदिति कथं तस्य तत्प्रतीतिः स्यात् ? । अथैतादृशसंवेदनं व्याप्तिसंवेदनरूपमेव । तदपेक्षायां च शब्दार्थज्ञानमनुमानमेव भवेदिति चेत् । कूटा कूटकापणविवेकप्रत्यक्षमपि किं न तथा, तत्रापि तथाविधोपदेशस्य व्याप्त्युल्लेखस्वरूपत्वात् ।
६४ अथ व्याप्तेः प्राक् प्रवृत्तावपि तदानीमभ्यासदशापन्नत्वेनानपेक्षणात् प्रत्यक्षमेवैतत्, तदपेक्षायां तु भवत्येवैतदनुमानम्-कूटोऽयं कार्षापणः, तथाविधविशेषसमन्वितत्वात्, प्राक्प्रेक्षितकार्षापणवत्-इति चेत् । एतदेव समस्तमन्यत्रापि तुल्यं विदाङ्करोतु भवान् ।
५ न खल्वभ्यासदशायां कोऽपि व्याप्ति शब्देऽप्यपेक्षते, सहसैव तज्ज्ञानोत्पत्तेः । अनभ्यासे तु को नाम नानुमानतां मन्यते ? यथा कस्यचिद्विस्मृतसङ्केतस्य कालान्तरे पनसशब्दश्रवणे-यः पनसशब्दः स आमूलफलेग्रहिविटपिविशेषवाचकः, यथा यज्ञदत्तोक्तः प्राक्तनः, तथा चायमपि देवदत्तोक्त इति । एवं च पक्षकदेशे सिद्धसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकानां पक्षीकृतानामेकदेशस्यानुमानरूपतया स्वीकृतत्वात् । यस्त्वागमरूपतया स्वीकृतः शब्दः, तत्राभ्यासदशापन्नत्वेन व्याप्तिग्रहणापेक्षैव नास्ति, अन्यथा कूटाकूटकार्षापणप्रत्यक्षेण व्यभिचारापत्तेः । तथा 'च हेतोरसिद्धिः । एवं च शब्दत्वस्य व्याप्तिग्रहणानपेक्षावे सिद्धे विवादास्पदः शब्दो नानुमानम् , तद्विभिन्नसामग्रीकत्वात् , कूटाकूटकार्षापणविवेकप्रत्यक्षवत् , इति सिद्धम् ।'
૬૩ વૈશેષિક–આવા આવા વિશેષથી યુક્ત સ્વરૂપવાળા સિક્કાને ખરેપેટે જાણ એવા ઉપદેશની સહાય હોય તે આંખ આદિ ખરા-ખેટાના વિવેકમાં કુશળ બને છે. પણ આ પ્રકારને ઉપદેશ અપરીક્ષક પુરુષને પહેલાં મળે નથી માટે તેનું જ્ઞાન તેવું થતું નથી.
१ आमुख्ये-डे-३। २ डे-३-टिप्पणसंमतः 'तद्विवेककौ” इति पाठः । ३ °स्पदं-इति टिप्पणे पाठः ।