________________
३. ९.] अनुमानप्रामाण्यम् ।
२९ પડતું નથી કારણ કે અમારે મતે તે હેતુનું લક્ષણ એકમાત્ર અન્યથાનુપપત્તિ છે. તેમ જ વ્યામિ સંબંધ પણ અમે પક્ષ સાથે કરતા નથી, આથી વ્યાપ્તિની સિદ્ધિ માટે અમારે ધમને પક્ષ કહેવું પડતું નથી. અમે તો હેતુની વ્યાપ્તિને સંબંધ સાધ્યધર્મ સાથે કહીએ છીએ.
(प०) उपचरितपक्षादिलक्षणत्वादिति उपकल्पितपक्षादिलक्षणत्वात् ।
पक्षधर्मत्वे इति हेतोः सत्के । धर्मीति पर्वतादिः । धर्म इति वह्निमत्त्वादिः । इहापि चेत् साध्यधर्मविशिष्टो धर्मी पक्ष उच्येत तदा यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिः प्राप्नुयादिति गर्भार्थः । साध्यसिद्धौ पुनयमिति साध्यसिद्धौ पञ्चावयवप्रयोगावसरे पुनर्द्वयम् । कोऽर्थः ? साध्यधर्मविशिष्टो धर्मी पक्ष उच्यते ।
भौतमिति भूताविष्टम् । तदेवेति अनुमानमेव । उपचरेमेत्यतः पुरो वाक्यारम्मे अस्मन्मते इति गम्यम् । पक्षेणैवेति मुकुलितेनैव । येनेति कारणेन । तत्सिद्धये इति व्याप्तिसिद्धये । धर्मे इति वह्निमत्त्वादौ । तदिति पक्षत्वम् । आरोपयेमहीत्यस्य पुरः किन्त्विति शेषः । तदभिधानादिति व्याप्त्यभिधानादस्माकम् ।
ज्ञातव्ये इत्यादि । हेतुलक्षणे निश्चेतव्ये धर्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते, मुख्यपक्षकदेशत्वं चान्न समुदायोपचारनिमित्तमिति । न च साध्यधर्मिणोऽन्यत्र न पक्षत्वप्रसंगः । तथा व्याप्तिग्रहणकाले धर्मी पक्षो न भवति । यतो दृष्टान्ते धर्मिणाऽव्याप्तो हेतुन सिद्धः, अत एव धर्माधर्मिसमुदायोऽपि व्याप्तिग्रहणकाले न पक्षो धर्ममात्र तु युक्तम् । धर्मेणैव दृष्टान्ते हेतुाप्तो यतः । साध्यप्रतीतिकालेऽपि धर्ममात्रं न पक्षोपि तु समुदायः, निराधारस्य धर्मस्याऽसिद्धेः । नापि धर्मिमात्रं पक्षो धर्मिणः पक्षत्वेन पक्षधर्मग्रहणकाल एव सिद्धत्वात् । ततः साध्यप्रतीतिकाळे धर्मधर्मिसमुदाय एव पक्षो युक्तः ।।
(टि०) येन तत्सिद्धये इत्यादि ॥ तत्सिद्धये इति पक्षधर्मत्वसिद्धये । धर्मिणीति केवल एव न साध्यधर्मविशिष्टे । तत्सिद्धये इति व्याप्तिसिद्धये । तदिति पक्षत्वम् । तदभिधानादिति व्याप्त्यभिधानात् ।
६५ नन्वानुमानिकप्रतीतौ धर्मविशिष्टो धर्मी, व्याप्तौ तु धर्मः साध्यमित्यभिधास्यत इत्येकत्र गौणमेव साध्यत्वमिति चेत् । मैवम् । उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वात् । तल्किमिह द्वयं साधनीयम् ? सत्यम् । नहि व्याप्तिरपि परस्य प्रतीता, ततस्तत्प्रतिपादनेन धर्मविशिष्टं धर्मिणमयं प्रत्यायनीय इत्यसिद्धं गौणत्वम् । अथ नोपादीयत एव तत्सिद्धौ कोऽपि हेतुस्तहि कथं अप्रमाणिका प्रामाणिकस्येष्टसिद्धिः स्यादिति नानुमानप्रामाण्यप्रतिषेधः साधीयस्तां दधाति ।
"नानुमानं प्रमेत्यत्र हेतुः स चेत् क्वानुमामानताबाधनं स्यात् तदा । नानुमानं प्रमेत्यत्र हेतुर्न चेत् क्वानुमामानतावाधनं स्यात्तदा ॥१॥” इति संग्रहश्लोकः