SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २६ अनुमानप्रकारनिरूपणम् । तत्वत इत्यादि परवाक्यम् । अस्येति अनुमानस्य । अथ नेत्यादि परवाक्यम् । अयमिति तर्कः । वस्त्विति स्वलक्षणस्याख्या । अनुमानमित्यादि सूरिः । अवस्वित्यादि परः । पदार्थप्रतिवन्धादिति स्वलक्षणपर्यवसानात् । अनुमानमिति भवद्रुच्या । तर्कश्च प्रमाणमिति अस्मद्रुच्या ७॥ टि०) तत्रेति सामान्ये । तस्यापीति अनुमानस्यापि । अन्यदिति वस्तु द्विधा स्वलक्षणलक्षण' सामान्यलक्षणं च। तत्र स्वलक्षणलक्षणं वस्तु प्रत्यक्षविषयः । अन्यत् सामान्यलक्षणमनुमानस्य विषयः । एतदिति अनुमानम् । अस्येति अनुमानस्य । तथेति व्यवहारेण प्रमाणं भवतु । अथ नायमिति तर्कः तथास्त्विति अप्रमाणं भवतु, सर्वथावस्तुसंस्पर्शपराङ्मुखत्वात् । अवस्तुनिर्भासमपीति सामान्यनिर्भासमपि । केसरिकिशोरेति यदस्मत्सदसि सामान्य निर्मूलमुन्मूलयितुमिच्छुस्त्वम् , तत् सिंह(ह) परिभूय तद्वक्त्रदंष्ट्रापकर्पणं चिकीर्षुः । तथा चोक्तम् "आस्वादितद्विरदशोणितशोणशोभा सन्ध्यारुणामिव कलां शशलाञ्छनस्य । ज़म्भाविदारितमुखस्य मुखात् स्फुरन्ती को हर्तुमिच्छति हरेः परिभूय दंष्ट्राम् ॥" अस्येति सामान्यस्य ॥७॥ अत्रोदाहरन्तियथा यावान कश्चिद् धूमः स सर्वो वही सत्येव भवतीति, तस्मिन्नसत्यसौ न भवत्येव ॥ ८॥ अत्राद्यमुदाहरणमन्वयव्याप्तौ, द्वितीयं तु व्यतिरेकव्याप्तौ ॥८॥ “જે કે ઈ ધૂમ છે તે સર્વ અગ્નિ હેય તે જ હોય છે, તે ન હોય તે हात १ नथी.' ८. ___$1. सूत्रमा प्रथम दृष्टान्त म-१५०यासिनु छ, भने मी दृष्टान्त વ્યતિરેક વ્યાપ્તિનું છે. ૮, अथानुमानस्य लक्षणार्थं तावत् प्रकारौ प्रकाशयन्ति _अनुमानं द्विप्रकारं स्वार्थ परार्थं च ॥९॥ ६ १ नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनमिति चेत् ? उच्यते । परमार्थतः स्वार्थस्यैवानुमानस्य भावात् । स्वार्थमेव ह्यनुमानं कारणे कार्योपचारात् परार्थं कथ्यते । यद्वक्यन्ति तत्रभवन्तः “पक्षहेतुवचनामकं परार्थमनुम नमुपचारात्" [ ३. २३ ] इति । नहि गोः, उपचरितगोत्वस्य च वाहीकम्यैकं लक्षणमस्ति । यत्पुनः स्वार्थेन तुल्यकक्षतयाऽस्योपादानम्, तद्वादे शास्त्रे चानेनैव व्यवहागत्, लोकेऽपि च प्रायेणास्योपयोगात् तद्वत् प्राधान्यख्यापनार्थम् । .. १ स्वलक्षणं सामा-दे।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy