________________
૨૪ तर्कप्रामाण्यम् ।
[३. -७ સાધનના) જ્ઞાનમાં સમર્થ છે, માટે તે પણ પ્રત્યક્ષના વ્યાપારને કેમ ઉદીપન (अमिभुम) री श ?
(प०) अथ "धूमेत्यादि परवाक्यम् । प्रत्यक्षविशेप एवेत्यग्रे हेतोरिति शेपः । नन्विति सूरिः । नियतधूमाग्निगोचरतयेति महानसादिनियतदेशस्थितो धूमानी गोचरो यस्य स तथा तस्य भावस्तत्ता, तथा। तावन्मात्रे एवेति नियतधूमाग्निगोचरे एव। तत्रैवेति नियतदेशे एव । कुतस्त्यमित्यादी लक्षणमिति ज्ञानम्, तत्र प्रत्यक्ष(क्षा)प्रवृत्तरित्याशयः ।
तद्वलादिति प्रत्यक्षवलात् । निर्णेतुमिति काल्पनिकत्वाद्विकल्पस्य । को नामैवमित्यादि सूरिवाक्यम् । अयमेवेति तर्क एव । तथेति उपलम्भानुपलम्भसम्भवत्त्वेन । तदेवेति प्रत्यक्षम् । तत्रेति व्याप्तिप्रतिपत्तौ । तीत्यादिनाचार्यः प्रसङ्गमुत्पादयति । तदेवेति लिङ्गग्राहिप्रत्यक्षम् । अथ कथमित्यादि परवाक्यम् । तदिति अनुमानम् । तदव्यापारमिति लिङ्गप्रत्यक्षस्य व्यापारम् । तीत्यादि सूरिः । सोऽपीति तर्कः । तद्व्यापारमिति प्रत्यक्षव्यापारम् ।
___ (टि०) अथ "धूमाधीरित्यादि ॥ द्वौ उपलम्भौ, त्रयश्चानुपलम्भाः । उपलम्भः प्रत्यक्षमित्येकोर्थः । प्रत्यक्ष द्विमेदं वहिविज्ञानधूमज्ञान-लक्षणम् । अनुपलम्भस्त्रिभेदः । तथा च पूर्व धूमाधीः धूमेऽवुद्धि मादर्श देव । तयोरिति वह्नविज्ञानधूमज्ञानयोः अधीरनुपलब्धिरज्ञानमित्यर्थः । प्रत्यक्षं चानुपलम्भश्च प्रत्यक्षानुपलम्भी ताभ्याम् ॥ ननु प्रत्यक्षमित्यादि । * कार्यहेतो तावद् व्याप्तेः प्रतिपत्तिः प्रत्यक्षानुपलम्भपञ्चकाज्जायते । अग्निधूमव्यतिरिक्तेषु हि परिदृश्यमानेष्वपि भूतलादिपु प्रथमं धूमस्यानुपलम्भ एकः । तदनन्तरमग्नेरुपलम्भः, ततो धूमस्येत्युपलम्भद्वयम् । पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्यानुपलम्भ इति द्वावनुपलम्भौ । अनुपलम्भोपि प्रत्यक्षविशेष एव लक्षयितव्यः । इत्थं प्रत्यक्षानुपलम्भपञ्चकेनकस्यामपि व्यक्तौ कारणभावावगमो भवति 'अग्नेः कार्य धूमः' इति । यश्च यत्कार्यः स तेन नियतः । यदि तेन नियतो न स्यात् तदा तन्निरपेक्षत्वात् नित्यं सत्त्वमसत्त्वं वा तस्य स्यात् । ततश्चायमर्थः संपन्नः-यो यस्मादुत्पन्नः सकृदप्युपलब्धः स तस्मादेव नान्यस्मादिति प्रत्यक्षानुपलम्भपञ्चकात्कार्यहेतौ सार्वत्रिकाऽविनाभावप्रतीतिरुपजायते इति धूमाधीरित्यादेाख्या स्याद्वादरत्नाकरे* | तावन्मात्रे इति नियतधूमानिगोचर एव । तत्रैवेति नियतधूमाग्निगोचर एव । तद्वलादिति प्रत्यक्षवलात् । वभूवानिति संजात उत्पन्नः । सार्वत्रिकीमिति सर्वत्रभवां प्रत्यक्षाद्विकल्पो जायते विकल्पेन सार्वत्रिकीव्याप्तिर्निीयते । तर्कविकल्पस्येति तर्करूपो विकल्पस्तकविकल्पस्तस्य । अयमेवेति तर्कविकल्प एव । अथ तथेत्यादि ॥ अयमिति तर्कविकल्पः । तदेवेति प्रत्यक्षम् । तत्रेति व्याप्तिप्रतिप्रत्तौ । तदेवेति लिङ्गग्राहिप्रत्यक्षम् । कथं तदिति अनुमानम् । तद्व्यापारेति लिङ्गग्राहिप्रत्यक्षव्यापारम् । सोऽपोति तकविकल्पः । तद्व्यापारमिति प्रत्यक्षव्यापारम् ।।
६५ अथ सामान्यममान्यमेव, असत्त्वादिति कथं तत्र प्रवर्तमानस्तर्कः प्रमाणं स्याद् इति चेत् । अनुमानमपि कथं स्यात् ? तस्यापि सामान्यगोचरत्वाव्यभिचारात् “अन्यत् सामान्यलक्षणं सोऽनुमानस्य विषयः" [ न्यायबिन्दु १. १६, १७ ] इति धर्मकीर्त्तिना कीर्तनात् ।
* एतविहान्तर्गतोऽशो नास्ति ३३प्रतौ ।