SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ૨૨ तर्कप्रामाण्यम् । [३. ७ અભાવ થતાં પિતાને પ્રામાણિક માનનાર હે બૌદ્ધ ! તમારા મનમાં પ્રમેયની વ્યવસ્થા (સિદ્ધિો પણ કઈ રીતે થશે ? અર્થાત તક ન માનવાથી તમારા મતમાં પ્રમાણ કે પ્રમેયની કશી વ્યવસ્થા થઈ શકશે નહિ. એટલે જ્ઞાનશૂન્ય તમારા હૃદયની જેમ સર્વની શૂન્યતા પણ પ્રાપ્ત થઈ ગઈ. અથવા પ્રમાણ વિના એ સર્વશન્યતાને પણ નિશ્ચય કરી શકાતું નથી. આ રીતે તે આ અતિશય મેટા કષ્ટરૂપ સંકટમાં આવી પડેલા ગરીબ બિચારા તમે શું કરશો ? (५०) आः किमिदमित्यादि परवाक्यम् । विति सूरिवाक्यम्। प्रतिवन्धेत्यादिगद्य उपायशब्देनात्र तर्कः । तदभावे इति अनुमानाभावे। न प्रत्यक्षस्यापीत्यग्रे प्राणा इति योज्यम् । आवश्नीयादिति एतच्चानुमानादेवेत्याशयः । तदशायामिति उत्पत्तिदशायाम् । उभयोरिति भ्रान्ताभ्रान्तयोः । तन्निश्चये इति प्रमाणाप्रमाणविवेकनिश्चये । न चेदमित्यादिगद्ये न चेदमनुमानं प्रवर्तते इति भावः । प्रतिवन्धप्रतिपत्ती तर्कस्वरूपोपायापाये इति । अथोत्पत्तिमात्रेण प्रामाण्याप्रमाण्यविवेकाभावेऽपि संवादविसंवादाभ्यां तद्विवेको भविष्यति । आचार्यः- एवं चेत्, तन्निश्चयार्थमनुमानमवश्यमेव कार्यम् । यथा सत्यमिदं संवादात्; असत्यमिदं विसंवादात् । अनुमानं च तर्काभावे प्रतिवन्धप्रतिपत्तौ न समर्थमिति भावः । सापीति सर्वशून्यता । प्रमाणमन्तरेणेत्यादि । तर्काऽभावे नानुमानम् । अनुमानाभावे च न प्रत्यक्षमपि इति प्रमाणाभावः । (टि) तेषामिति तथागतानाम् । कथं हि नर्केत्यादि । ईदृशमिति सर्वशून्यत्वपातकरूपम्। तदभावे इति अनुमानाऽभावे । प्रत्यक्षस्यापीति न प्राणा इति संवन्धः । तद्दशाया. मिति उत्पत्त्यवस्थायाम् । उभयोरिति प्रमाणाऽप्रमाणयोः । सोसदृश्यादिति समानभावात् । तन्निश्चये इति प्रामाण्याऽप्रामाण्यनिर्णये । इदमिति अनुमानम् । सापि वेति अथवा सर्वशून्यतापि । तस्या अपीति सर्वशून्यताया अपि । अयमिति तथागतः। तपस्वीति वराकः । ६३ अथ "धूमाधीवह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्माभ्यामिति पञ्चभिरन्वयः" ॥१॥ निर्णेष्यते । अनुपलम्भोऽपि प्रत्यक्षविशेष एवेति प्रत्यक्षमेव व्याप्तितात्पर्यपर्यालोचनचातुर्यवर्यम् , किं तर्कोपक्रमेणेति चेत् । ननु प्रत्यक्षं तावन्नियतधूमाग्निगोचरतया प्राक् प्रावृतत् । तद्यदि व्याप्तिरपि तावन्मात्रे एव स्यात्तदाऽनुमानमपि तत्रैव प्रवर्ततेति कुतस्त्यं धूमान्महीधरकन्धराऽधिकरणाशुशुक्षणिलक्षणम् ? $ ४ तबलाद् बभूवान् विकल्पः सार्वत्रिकी व्याप्ति पर्याप्नोति निर्णेतुमिति चेत् । को नामैवं नामस्त, तर्कविकल्पस्योपलम्भानुपलम्भसम्भवत्वेन स्वीकारात् । किन्तु व्याप्तिप्रतिपत्तावयमेव प्रमाणं कक्षीकरणीयः । अथ तथाप्रवर्त्तमानोऽयं प्राक्प्रवृत्तप्रत्यक्षव्यापारमेवाभिमुखयतोति तदेव तत्र प्रमाणम् इति चेत् । तर्हि अनुमानमपि लिङ्गग्राहिप्रत्यक्षस्यैव व्यापारमामुखयतीति तदेव वैश्वानरवेदने प्रमाणम्, नानुमानम् इति किं न १ मात्रैव मु।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy