SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ हेत्वाभासः। [६.५७ ६१३ यं च विरुद्धाव्यभिचारिनामानमनैकान्तिकविशेषमेते व्यतानिषुः, यथाअनित्यः शब्दः, कृतकत्वात् घटवत् । नित्यः शब्दः, श्रावणत्वात् , शब्दत्ववदितिः सोऽपि नित्यानित्यस्वरूपानेकान्तसिद्धौ सम्यग्घेतुरेव; तदपरपरिणामित्वादिहेतुवत् । सर्वथैकान्तसिद्धये पुनरुपन्यस्तोऽसौ भवत्येव हेत्वाभासः, स तु विरुद्धो वा संदिग्धविपक्षवृत्तिरनैकान्तिको वेति न कश्चिद्विरद्धाव्यभिचारी नाम । एवं च असिद्धविरुद्धानकान्तिकास्त्रय एव हेत्वाभासा इति स्थितम् । $૧૩ વળી બૌદ્ધોએ વિરુદ્ધાવ્યભિચારી નામનો અગ્નિકાન્તિકનો ભેદ જણાવ્યું છે. જેમકે શબ્દ અનિત્ય છે, કૃતક હોવાથી, ઘટની જેમ, અને શબ્દ નિત્ય છે, શ્રવણને વિષય હોવાથી, શબ્દત્વની જેમ, તે પણ તેની જેવા બીજા હેતુ 'परिणामित्व' माहिनी भने नित्यानित्यस्१३५ मने आन्तने सिद्ध ४२ तो સમ્યગુ હેતુ જ છે, પણ જે તેને સર્વથા એકાન્તની સિદ્ધિ માટે ઉપન્યાસ કરવામાં આવે તે તેહેવાભાસ થાય જ છે. પરંતુ તે પ્રસંગે તે વિરુદ્ધ હવાભાસ અથવા સંદિગ્ધવિપક્ષવૃત્તિ નામને અનૈકાતિક થાય છે, માટે વિરુદ્ધવિચારી . નામને કઈ હેત્વાભાસ નથી. એટલે આ રીતે અસિદ્ધ, વિરુદ્ધ અને અનૈકાન્તિક-આ ત્રણ જ હેત્વાભાસ छ, से सिद्ध थयु. (पं.) एते इति सौगताः । (टि.) यं चेत्यादि ॥ पते व्यतानिपुरिति सौगता विस्तारयामासुः । तदपरेति तस्मान्नित्यानित्यशब्दादपरं परिणामित्वादि तद्वत् । सर्वथैकान्तेति नित्यस्य वा अनित्यस्य वा सिद्धये ॥ असाविति हेतुः । १४ नन्वन्योऽप्यकिञ्चित्कराख्यो हेत्वाभासः परैरुक्तः, यथा-प्रतीते प्रत्यक्षादिनिराकृते च साध्ये हेतुरकिञ्चित्करः । प्रतीते, यथा-शब्दः श्रावणः, शब्दत्वात् । प्रत्यक्षादिनिराकृते, यथा-अनुष्णः कृष्णवर्मा, द्रव्यत्वाद; यतिना वनिता सेवनीया, पुरुषत्वादित्यादिः; स कथं नात्राभिहित इति - चेत् , उच्यते । नन्वेष हेतुनिश्चिताऽन्यथानुपपत्त्या सहितः स्यादहितो वा । प्रथमपक्षे, हेतोः सम्यक्त्वेऽपि प्रतीतसाध्यधर्मविशेषणप्रत्यक्षनिराकृतसाध्यधर्मविशेषणाऽऽगमनिराकृतसाध्यधर्मविशेषणादिपक्षाभासानां निवारयितुमशक्यत्वात् तैरेव दुष्टमनुमानम् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोपोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वप्रसक्तेः । द्वितीयपक्षे तु यथोक्तहेत्वाभासानामन्यतमेनैवानुमानस्य दुष्टत्वम् । तथा हि-अन्यथानुपपत्तेरभावोऽनध्यवसायाद्विपर्ययात् संशयाद्वा स्यात्, प्रकारान्तरासंभवात्। तत्र च क्रमेण यथोक्तहेत्वाभासावतार इति नोक्तहेत्वाभासेभ्योऽभ्यधिकः कश्चिदकिञ्चित्करो नाम ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy