SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ३. ७] प्रत्यभिज्ञानम् । वहिस्तदभावे इति नीलपीतादिविशेषाऽभावे । विशेष एव बहिस्तावन्नास्ति । अन्यत्रापीति नीलपीतादिविशेषेऽपि । तत एवेति वासनात एव । उदवोधकमिति निश्चयोत्पादकं ज्ञापकम् । किञ्चिदिति प्रमाणम् । वहिरिति घटपटादिभावराशौ । त्यज्यतामिति विशेषान् [अ]बहीरूपान् मन्यध्वमित्यर्थः । अन्यथेति विशेपाणामन्तस्त्वे सादृझ्याद्यनगीकारे । प्रमाणमुद्रा की । सिद्धे चैवमित्यादि । इयमिति प्रत्यभिज्ञा । तद्विकल्पस्येति अग्नित्वादिसामान्यविकल्पस्य । तदिति अनुमानम् । प्रणालिकेयम्-तथाहि-नार्थ विना तादात्म्यतदुत्पत्तिरूपसम्बन्धप्रतिवद्ध. लिङ्गसद्भावः, न तद्विना तद्विपयं ज्ञानम् , न तज्ज्ञानमन्तरेण प्रागवधारितसंवन्धस्मरणम् , तदस्मरणे नानुमानमिति अर्थाव्यभिचारित्वात् भ्रान्तमप्यनुमानं प्रमाणमिति सौगताशयः । तद्विकल्पस्येति प्रत्यभिज्ञानविकल्पस्य । इयमपीति प्रत्यभिज्ञापि । तथेति प्रमाणम् । १० अथ 'अयमनेन सदृशः' इति प्रत्यभिज्ञा, प्रत्यक्ष वा ? क्वचित् किञ्चिदिति ब्रूमः । अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं प्रत्यभिज्ञैवेयम् । भवति च परोक्षस्यापि साक्षादिवाऽध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्शः 'एपोऽग्निरनुमीयते' 'अयमस्य वाक्यस्यार्थः' इति । उभयं तु प्रत्यक्षेण लक्षयतः प्रत्यक्षमेवैतदिति ॥६॥ ૧૦ બૌદ્ધ-આ આના સરખે છે–આ જ્ઞાન પ્રત્યભિજ્ઞા છે કે પ્રત્યક્ષ જૈન-કઈ સ્થળે પ્રત્યભિજ્ઞાસ્વરૂપ છે, તે કેઈ સ્થળે પ્રત્યક્ષરૂપ છે. પૂર્વે અનુભવેલ એક પરોક્ષ પદાર્થને સાક્ષાતુની જેમ જાણનારનું અને અન્યનું દર્શન કરનારનું એ જ્ઞાન પ્રત્યભિજ્ઞાન જ છે. પરોક્ષ પદાર્થને પણ સાક્ષાતુની જેમ નિશ્ચય કરવામાં આવે ત્યારે પ્રત્યક્ષબોધક સર્વનામથી બોધ થાય છે, જેમકે-- આ અગ્નિનું અનુમાન કરાય છે “આ વાક્યને આ અર્થ છે વિગેરે, અર્થાત આવા સ્થળમાં અગ્નિ આદિ પદાર્થો પક્ષ હોવા છતાં તેમને વિષે પ્રત્યક્ષमाघ २मा' वा सर्वनामनी प्रयास थये। छे. અને જ્યાં ઉભયનું એટલે કે “આ આના સરખે છે એમાં બનેનું પ્રત્યક્ષદ્વારા દર્શન પુરુષને થતું હોય ત્યાં એ પ્રત્યક્ષ જ છે ૬. (प०) अथ 'अयमनेन' इत्यादि परवाक्यम् । क्वचित् किञ्चिदिति म इति सूरिवाक्यम् । भवति चेत्यादिना पूर्वोक्तस्पप्टनम् । अयमस्य वाक्यस्यार्थ इति उच्चरितप्रध्वंसाद्वाक्यस्य परोक्षत्वम् ॥६॥ (टि०) अध्यवस्यत इति जानतः स्मरत इत्यर्थः । अपरमिति पूर्वावगतार्थसमानं द्वितीयमर्थमवलोकयतः ॥६॥ तर्कमपि कारणगोचरस्वरूपैः प्ररूपयन्तिउपलम्भानुपलभ्भसम्भवं त्रिकालीकलितसाध्यसाधनसंवन्धालम्बनं 'इद मस्मिन् सत्येव भवति' इत्याद्याकारं संवेदनमूहापरनामा तकः ॥ ७ ॥
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy