________________
धर्मिधर्मयोभेदाभेदः ।
२१७
तैर्विनापीति सहकारिभिविनापि । नन्वित्यादि परः । न करोतीत्यतोऽग्रे यत इति गम्यम् । स तीत्यादि सूरिः।
[अथ] तद्विरहेत्यादि परः । तर्हि कालान्तरेऽपीत्यादि सूरिः। न कुर्यादित्यतोयत इति गम्यम् ।
अथायमित्यादि परः । तदसदित्यादि सूरिः । अनतिरेकादिति एकत्वात् । सत्त्वे वेति सत्त्वे वा साकल्यवैकल्ययोः । अथ सहकारीत्यादि परः । अस्तु तावदित्यादि सूरिः । प्रष्ट इति प्रधानम् । परीहार इति उत्तरम् । तत्वेऽपीति भिन्नत्वेऽपि । सोऽपीति तस्यापि सहकारिसाकल्यान्तःपातित्वात् । तदैवेति प्रथमक्षणेऽपि । प्रसङ्गपरिहारायेति जनोपन्यस्तप्रसङ्गनिषेधाय । परिकल्पिताविति त्वति ज्ञेयम् । अभिधातुं शक्य इति भवतापि । भावस्याकर्तृत्वप्रसङ्गादिति स्वभावरहितत्वात्।।
(टि०) अयमिति पदार्थः ।। तत्सन्निधाविति अपेक्षणीयसहकार्यादिकारणसामीप्ये ॥ तैरिति सहकारिभिः ।
सहकार्यन्तरमिति सहकारिभिरुपकारवेलायां अपरसहकारिकारणानि गवेषणीयानि । तेनापीति सहकारिकारणान्तरेणापि । तथाऽमी इति सहकारिणो दण्डचक्रचीवरदोरकादयः । अतत्स्वभावमिति अभावस्वरूपमुपकारमिति संवन्धः । तेनापीति अतत्स्वभावेनापि उपकारेण तस्येति उत्पद्यमानस्य । अस्येति उत्तद्यमानस्य । स्वभावव्यावृत्तिरिति तैः सहैव करोतीत्येवंरूपस्वरूपस्य न व्यावृत्तिरत एव स्वभावसत्त्वे सहकारिभिविनापि करणप्रसङ्गः । अस्येति उत्पद्यमानपदार्थस्य । तैरिति सहकारिभिविना । यदि सहकारिणोऽन्तरेणापि कुर्यात्तत्तः सहैव करोतीत्येवं लक्षणस्वभावं परित्यजेत् । भेद इति विशेषः । सहकारीति सहकारिसाकल्ये। प्रत्युत्तेति विशेषेण गच्छतोऽपि सहकारिणः । अन्यथेति सहकार्यपगमे कार्यकारणभावाभावात् । अकरणे तैः सह करोतीति स्वभावनाशः स्यात् ।
अत एवेति स्वभावहानिप्रसङ्गादेव । तद्विरहेति सहकारिकारणविरहेऽकर्ता । तद्विरहेति तेन प्रथमं सहकारिविरह एव कर्तव्यः ।
(टिक) तथा चेति सहकारिविरहे सहकारिसंयोगे च। भावेति पदार्थमेदः ॥ अयमिति विरुद्धधर्माऽध्यासः । तद्वैकल्यमिति सहकारिविकलता। अनतिरेकादिति अभेदात् । अस्येति धर्मिणः । तत्साकल्येति सहकारिसकलता-विकलते । सत्त्वे वेति साकल्यवैकल्ययोविद्यमानत्वे । धर्ममेदेऽपीति यथा घटपटयोः परस्परमत्यन्तमेदे घटस्य विध्वंसेऽपि न घटस्य किञ्चिद् भवति । तत इति धम्मिणः । तेपामिति सहकारिसाकल्य-वैकल्यादिधर्माणाम् । तत्त्वेऽपीति एकान्तभेदेऽपि । तदैवेति प्रथमक्षण एव । असाविति पदार्थः ॥ गीर्वाणति देवशापेनापि । अपहरतयितमिति निराकर्त्तम् । भेदप्रसंगति मेदप्रसंगस्य परित्यागाय । भिन्नस्वभावाविति एकान्तेन धमिणः सकाशतः। विरुद्धधर्मेति अन्त्यक्षणस्य क्रियाकर्तृत्वं पूर्वस्य च न ।
९७ एवं च यद्विरुद्धधर्माध्यस्तं, तद्भिन्नं, यथा शीतोष्णे, विरुद्धधर्माध्यस्तश्च विवादास्पदीभूतो भाव इति न नित्यैकान्तासद्धिः । एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वान्यथानुपपत्तेरिति । तथाहि-सर्व वस्तु द्रव्या