________________
५. ८.] धमिधर्मयोर्भेदाभेदः ।
२१३ રૂપે નિશ્ચિત છે. કારણ કે–પ્રમાણને વિષય એકાન્ત નિત્ય નથી. તે આ પ્રમાણેનિત્ય એક સ્વરૂપવાળા પદાર્થ જેમ વર્તમાનકાલની અર્થક્રિયા કરવાને સમર્થ છે તેમ જે પૂર્વ (અતીત) અને અપર-(અનાગત)કાલીન અર્થ ક્રિયા કરવામાં પણ સમર્થ હોય તે–તેને તે પૂર્વાપર કાલની અર્થકિયાને પણ વર્તમાનમાં કરવાને પ્રસંગ આવશે અને જે તે પૂર્વે અથવા અપર કાલમાં અથકિયા કરવા અસમર્થ હોય –તે કાલની જેમ વર્તમાનમાં પણ તે અર્થ ક્રિયા કેવી રીતે ४२।१
(पं०) अथैतदित्यादिगद्य शालूको वृश्चिकः । तद्वदिति धर्मवत् ।
तन्नावितथमित्यादि सूरिः। पूर्वापरकालयोरिति अतीतानागतयोः । तदा नीमपीति पूर्वापरकालयोरपि।
__ अथेत्यादि परः । अत्र च काक्वा व्याख्या। तदेत्यादि सूरिः । तत्करणमिति भर्थक्रियाकरणम् । कथं स्यादिति नित्यैकरूपत्वात् ।
(टि.) यदि धर्मीत्यादि । तद्वदिति धर्मवत् । तस्यापीति धर्मिणोऽपि प्रत्यभिज्ञेति भवतु वहुपु धर्मेषु वर्तमानत्वात् धर्मिणां बहुत्वं, को दोष इति तदाह-प्रत्यभिज्ञानेन स एवायमित्येवं लक्षणेन प्रतिपन्न अङ्गीकृतं वस्तुन एकत्व तस्य व्याहरतिळहननम् । तदानीमिति पूर्वापरकालयोरपि । तत्क्रियेति वर्तमान कालक्रियाविधानप्रसक्तेः । अयमिति पदार्थः । तदा. नीमिवेति पूर्वोत्तरकालयोरिव । तत्करण मिति क्रियाकरणम् ।
६ अथ समर्थोऽप्ययमपेक्षणीयासन्निधेनं करोति, तत्संनिधौ तु करोतीति चेत् । ननु केयमपेक्षा नाम ?; किं तैरुपकृतः करोतीत्युपकारभेदः ?, किं वा तैः सह करोतीत्यन्वयपर्यवसायी स्वभावभेदः, अथ तैर्विना न करोतीति व्यतिरेकनिष्ठं स्वरूपम्, यद्वासहकारिषु सत्सु करोति, तद्विरहे तु न करोतीति तवयावलम्बि वस्तुरूपम् ।
तत्र प्राच्यः प्रकारस्तावदसारः, अनवस्थाराक्षसीकटाक्षितत्वात् । तथाहि-उपकारेऽपि कर्तव्ये सहकार्यन्तरमपेक्षणीयम् , उपकरणीयं च तेनापीत्युपकारपरम्परा समापततीत्यनवस्था । तथाऽमी उपकारमारभमाणा भावस्वभावभूतम् , अतत्स्वभावं वाऽऽरभेरन् । स्वभावभूतोपकारारम्भभेदे भावस्याप्युत्पत्तिरापतति । नानुत्पद्यमानस्योत्पद्यमानः स्वभावो भवति; विरुद्धधर्माध्यासात् । द्वितीयपक्षे तु धर्मिणः किमायातम् ? । नान्य. स्मिन् जाते नष्टे वाऽन्यस्य किञ्चिद्भवति, अतिप्रसङ्गात् , अथ तेनापि तस्य किञ्चिदुपपकारान्तरमारचनीयमित्येषा पराऽनवस्था ।
तैः सह करोतीत्यादिपक्षोऽपि नाखुणः स्वभावस्य तादवस्थ्यात् । न ह्यस्य सहकारिठ्यावृत्तौ स्वभावव्यावृत्तिरिति तैर्विनाऽपि कुर्यात् । ननु यत एव सहकारिव्यावृत्तावस्य स्वभावो न व्यावर्त्तते, अत एव तैर्विनाऽपि न करोति । कुर्वाणो हि