________________
५. ५]
क्षणभङ्गनिराकरणम् ।
२०९
न्धस्य हि द्विष्टत्वादव्यतिरिक्तत्वे सति षष्ट्येव न प्राप्नोति । भेदे हि षष्ठी दृश्यते इत्यपीति तदेवेति कर्तृपदम् । उत्पद्यते इति क्रियापदम् । सर्वथाऽव्यतिरिक्तत्वे भयमपि भेदो न प्राप्नोति किन्त्विति इदं वक्तुं शक्यते । तथेति तथावचने सति । तदुत्पाद वस्तुन उत्पादः असाविति उत्पादः । तस्यैवेत्यादि बौद्धः । तदप्यवद्यमित्यादि जैनः । उत्पादनापीति न केवलं नाशेनैव । कार्यकारणभावादेरित्यादि कार्यकारणभावस्तावन्न, मृत्पिण्डादिकार्यतया तदभ्युपगमात् । नापि संयोगः, उत्पादस्याद्रव्यत्वात् । संयोगश्च द्रव्ययोरेव भवति । घटादिसमकालतापत्तेश्च । विशेषणीभावोऽपि न, मृत्पिण्ड एव उत्पादविशिष्टो जायते । भविष्वक् भावोऽपि न, सं हि सर्वथाऽभेदः, कथञ्चिदभेदो वा ? न तावदाद्यो मेदपक्ष कक्षीकारात् । द्वितीयस्तु विरोधाs - वरोधदुर्द्धर इति नैकोऽपि सम्बन्धः सङ्गच्छते । तस्मात् नेयमित्यादिना जैनो निगमयति । परिशीलनीयेति सौगतैः ।
(टि०) एतदिति नन्वेतत्साधनसिद्धिवद्धेत्यादि वाक्यजातम् । एतस्येति सुगतंमंतानुजीविनः । उत्पादेऽपीति घटाद्युत्पत्तावपि । प्रध्वंस इति घटस्य विनाशे अहेतुकत्वमाश्रित्य नोदनां कुर्वतः । लुप्तैकेति काणाक्षतां प्रकटयति । तस्येति भावस्य असत्स्वभावेति अविद्यमानस्वरूपकार्योत्पादकत्वम् । इतरेतिं अनष्टेति । अस्येति विकल्पयुगलस्य ।
अयमिति उत्पादः ॥ तदेवेति उत्पद्यमानं जन्यं कार्यमित्यर्थः । न च तथेति इदं वस्त्वित्युच्यमाने । तदुत्पाद इति कार्योत्पत्तिः । तस्येति उत्पद्यमानस्य । तद्विदिति उत्पद्यमानवत् । असांवित उत्पादः । तस्यैवेति उत्पद्यमानस्यैव । तस्येति उत्पादस्य ।
९१० इदं पुनरिहैदंपर्यम् - यथा दण्डचकचीवरादिकारणकलापसहेकृतीत् मृत्स्नालक्षणोपादानकारणात् कुम्भ उत्पद्यते, तथा वेगवन्मुद्गरसहकृतात् तस्मादेव विनश्यत्यपि । नचैकान्तेन विनाशः कलशाद्भिन्न एवं मृल्लक्षणैकद्रव्यतादात्म्यात् । विरोधित्वं चास्य विनाशरूपत्वमेव । नचैवं घटवत्पटस्यापि तदापत्तिः, मृद्दव्यतादात्म्येनैवावस्थानादुत्पादवत् । नच सर्वथा तादात्म्यम्, तदन्यतरस्यासत्त्वापत्तेः । नचैवमत्र विरोधावरोधः, चित्रकज्ञानवदन्यथोत्पादेऽपि तदापत्तेः । इत्यसिद्धं विनाशं प्रत्यनपेक्षत्वमर्थानाम्। अतः कथं क्षणभिदेलिमभावस्वभावसिद्धिः स्याद् ? । एवं चं सिद्धं पूर्वापरपरिणामव्यापकमेकमूर्ध्वता सामान्यस्वभावं समस्तं वस्त्विति ॥५॥
$૧૦ અહીં”—આ વિષયમાં રહસ્ય આ પ્રમાણે-જેમ દંડ, ચક્ર-ચીથરુ' વિગેરે કારણ સમૂહના સહકારવટે માટીરૂપ ઉપાદાન કારણથી ઘટના ઉત્પાદ થાય છે, તેમ વેગવંત મુદ્ગરાદિના સહકારથી માટીરૂપ ઉપાદાનથી જ ઘટાઢિ પા'ના વિનાશ પણ થાય છે અને વિનાશને કલશથી એકાંત ભિન્ન પણ માની શકાય નહિ, કારણ કે- માટીરૂપ એક દ્રવ્ય સાથે કલશ અને વિનાશનું તાદાત્મ્ય છે. અને વિનાશની વિનાશરૂપતા એ જ વિનાશનું-ઘટાઢિ ભાવ સાથે વિરાધીપણુ' છે અને એમ માનવામાં ઘટની જેમ પટના પણ તે વિનાશે ખની જતા નથી. કારણ કે-ઉત્પાદની જેમ વિનાશનુ પણે મૃદ્રવ્ય (માટી) સાથે જ
२७