________________
प्रमाणविषयनिरूपणम् ।
(प०) तदेतदित्यादि जैनः । न्यरूपि इति भवद्भिः। उत्पाददेशे इति यत्र तर्णक उत्पबते । अन्यथेति यदि तत्रापि भवेत् सामान्यम् । व्यक्तिसर्वगतत्वव्याघातादिति तत्र व्यक्तेरभावात् । कुत इति कुतः स्थानात् , तदिति सामान्यम् । तत्रेति तर्णकव्यक्तौ । स्वीकृतत्वादिति भवद्भिः। तत इति वक्त्यन्तरात् । तदिति सामान्यम् । शावलेयेऽपि वाहुलेयोऽयसित प्रतीतिः स्यादिति व्यक्त्या सहैव तत्र सामान्यस्य प्रवेशात् ।
व्याधिविशेपमिति व्याधिविशेष कर्म । ययेति शक्त्या । तति अर्थे ।
स्यादित्यादि सूरिः । न चैवमित्यतोऽग्रे यत इति गम्यम् । तथा हीत्यादिना जैन एवं प्रपञ्चयति । अस्येति सामान्यस्य । इयमिति वृत्तिः । अभ्युपगम्यतामिति यौगैः अभ्युपगम्यतामित्यतोऽग्रे ततः किं स्यादिति गम्यम् । मूलोच्छेद इति सामान्यसर्वगतत्वे साधयितुमिष्टे सामान्यस्यैवोच्छेदः । तन्न व्यक्तीत्यादिनाचार्य एव निगमयति । एतस्येति सामान्यस्य ।
(टि०) तथाहि यदिदमित्यादि । तदिति सामान्यस्य व्यक्तिसर्वगतत्वं पूर्वमविद्यमानायां तत्तर्णकव्यक्तावाश्रयाभावेन सामान्यस्याऽसंभवात् । अत एवासत् । अन्यथेति असरसामान्यवर्णनामन्तरेण । व्यक्तिसर्वेति या या तर्णकरूपा व्यक्तिः संसारचक्रे क्रीडति तत्र तत्र सामान्य सर्वदा समवेत संजायत इति पक्षप्रहाणप्रसङ्गात् । तदिति सामान्यम् ॥ तत्रेति व्यक्तौ । अस्येति सामान्यस्य "नित्यमेकमनेकवति सामान्यम्" इति वचनात् । तत इति व्यक्त्यन्तरात् । तदिति सामान्यम् । अस्येति सामान्यस्य ।
ययेति शक्त्या । स्वहेतुभ्य इति आत्मीयात्मीयसहकारिकारणेभ्यः । अर्थ इति तर्णकादौ पूर्वस्थानादिति पूर्वव्यक्तेः ॥ 'तनेति अर्थे, न चैवमिति सामान्यस्यैकान्तैक्यं न प्रमाणात् सिद्धिपद्धतिमशिश्रयत् । तस्यैवेति सामान्यैकान्तैक्यस्यैव । उपक्रान्तेति प्रारब्धत्वात् । तथाहि यदीत्यादि । अस्येति सामान्यस्य । एकान्तेति एकान्तेन एकमेव सामान्यमिति भावः । इयमिति वृत्तिः। सा हीति व्यक्तिः। तथास्वभावत्वादिति भिन्नकालासु व्यक्तिषु वर्तित्वभावत्वात् । तथातथेति भिन्नदेशकालासु व्यक्तिपु सामान्यरूपगोत्वादिभावेन । एतस्येति सामान्यस्य ।
६ नापि सर्वसर्वगतत्वम्, खण्डमुण्डादिव्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । अव्यक्तत्वात्तत्र तस्यानुपलम्भ इति चेत्, व्यक्तिस्वात्मनोऽप्यनुपलम्भोऽत एव तत्रास्तु । अन्तराले व्यक्त्यात्मनः सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भे सामान्यस्यापि सोऽसत्त्वादेव तत्रास्तु, विशेषाभावात् ।
९७ किंच, प्रथमव्यक्तिसमाकलनवेलायां तदभिव्यक्तस्य सामान्यस्य सर्वात्मनाऽभिव्यक्तितिव, अन्यथा व्यक्ताव्यक्तस्वभावभेदेनानेकत्वानुपङ्गादसामान्यस्वरूपताऽऽपत्तिः । तस्मादुपलब्धिलक्षणप्राप्तस्य स्वव्यक्त्यन्तराले सामान्यस्यानुपलम्भादसत्त्वम्, व्यक्तित्वात्मवत् ।
१ अत्र-डे-३।