________________
१५८
सप्तभङ्गीनिरूपणम् ।
[४. १७- - ઉભયને એક સ્વરૂપ કહે છે તે સર્વથા ક્યાંઈ પ્રવૃત્ત નહિ થાય અને ક્યાંથી નિવૃત્ત પણ નહિ થાય, કારણ કે-પ્રવૃત્તિ અને નિવૃત્તિના વિષયરૂપ ભાવને અભાવના પરિહારથી અને અભાવને ભાવના પરિહારથી ક્યાંઈ પણ સંભવ નથી. વસ્તુમાં અસ્તિત્વ અને નાસ્તિત્વ બનેને ભિન્ન ભિન્ન માનવા જોઈએ. અને એમ થતાં પ્રતિષેધ્ય નાસ્તિત્વનું અસ્તિત્વ અવિના ભાવિ સિદ્ધ થયું અને જેમ પ્રતિપેય નસ્તિત્વનું અવિનાભાવિરૂપે અસ્તિત્વ સિદ્ધ છે; તેમ હવે પછી કહેવાતું પ્રધાનભ વથી કમની અપેક્ષાએ ઉભયવાદિ ધર્મપંચકનું પણ અવિનાભાવિ સિદ્ધ छे, म . १६.
(प.) अथ' यदेवेत्यादिगद्ये तदिति नास्तित्वम् । कथं प्रतिपेध्यमिति स्वरूपं हि तत् । स्वरूपस्येति अस्तित्वनास्तित्वलक्षणस्य । तेनेति प्रतिपेध्येन नास्तित्वेन । अविनाभावित्वे इति जैनाभिमते।
तदसदित्यादि जैनो वक्ति । अयमिति पूर्वोपन्यस्तवादी । निवर्ततेत्यतोऽग्रे 'यतः' इति गम्यम् । प्रवृत्तिनिवृत्तिविपयस्येन्यादिगद्ये भावस्येति प्रवृत्तिविषयस्य । अभावस्येति निवृत्ति विषयस्य । असम्भवादिति ऐक्यात् तयोः । अभावस्य च भावपरिहारेणे. त्यतोऽग्रे 'असम्भवात्' इति योज्यम् । अथ च प्रवर्तते निवर्तते चेति समग्रवाक्यार्थः । रूपानारत्वमेष्टव्यमिति न पुनरैक्यम् । अन्यथा प्रवृत्तिनिवृत्ती न सम्भवतः । तथा चेत्यादिना तत्त्वमाह । अविनाभावि सिद्धमिति न पुनरैक्यं तयोः । अस्तित्वस्येति अस्तित्वस्य नास्तित्वं प्रतिषेध्यम् इति योगः । यथा द्वितीयभङ्गे अस्तित्वस्य प्रतिषेध्यं नास्तित्वं प्राधान्येनाभवदिति वाच्यार्थः । क्रमार्पितोभयत्वादीत्यादि क्रमार्पितोभयत्वाख्यस्तृतीयो भङ्गः । लक्षणीयमिति अस्तित्वस्येव ॥१६॥ __ (टि.) स्वद्रव्यादिभिरित्यादि ॥ यथा स्वकीयद्रव्यक्षेत्रकालभावैवस्तुनोऽसत्त्वमनिष्टं तथा यदि परद्रव्यादिभिरपि असत्त्वमनिष्टम् प्रतिनियतस्वरूपत्वं तत्र न स्यात् । अत एव विरोधः संभवी ।
अत्रेति वस्तुनि । तस्येति अनित्यत्वस्य । साधनवदिति हेतुवत् । विपक्षे नास्तित्ववर्जितस्यास्तित्वस्य ।
तदिति नास्तित्वम् । स्वरूास्येति अस्तित्वस्य । यतोऽस्तित्वमेव नास्तित्वम् यतो न घटत्वरूपं घटेनैव निषिध्यते। साध्यसद्धावे इति। साध्यसद्भावे नास्तित्वं यत् तेनास्तित्वेन सहाविनाभावित्वेनास्तित्वमिति हेतोः । तेनेति नास्तित्वेन । तेनैवेति येनैव स्वरूपेणास्तित्वं न तेनैव नास्तित्वम् । एकस्वरूपे उभयोरस्तित्व-नास्तित्वयोः प्रतीत्यनुपपत्तेः । यदि चायमिति । अस्तित्व कान्तवादी । यथा चेति नास्तित्वमिति अविनाभावि ॥१६॥
अथ तृतीयं भङ्गमुल्लेखतो व्यक्तीकुर्वन्तिस्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥१७॥
१ सर्वमिति पूर्व सूत्रादिहोत्तरत्र चानुवर्तनीयम् । ततोऽयमर्थः । क्रमापितस्वरद्रयादिचतुष्टयापेक्षया क्रमाप्तिाभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्वं कुम्भादि वस्तु स्यादस्त्येव स्यान्नास्त्येवेत्युल्लेखेन वक्तव्यमिति ॥१७॥
१ अथ यथेत्या -ल । २ इतः परं 'अविनाभावित्वेन' इति ल।