________________
१.२१
४. १०.]
पद-वाक्यलक्षणम् । (५) मशगुत्प३५ हेतु डी ता-ते मसिद्ध छे. ते मी प्रमाणेશબ્દ આકાશને ગુણ નથી, આપણા પ્રત્યક્ષને વિષય હોવાથી, રૂપની જેમ. અર્થાતું રૂપ આપણું પ્રત્યક્ષનો વિષય હોવાથી જેમ આકાશને ગુણ નથી તેમ શબ્દ પણ આપણું પ્રત્યક્ષને વિષય હોવાથી આકાશને ગુણ નથી. શબ્દમાં પગલિકત્વની સિદ્ધિ તે આ પ્રમાણે છે.–શબ્દ પગલિક છે, ઇન્દ્રિયને વિષય હોવાથી, રૂપાદિની જેમ. (અર્થાતુ અન્દ્રિય પ્રત્યક્ષને વિષય હોવાથી પગલિક छ, ये सिद्ध थयु.) ८.
(५०) व्यभिचार इत्यतोऽग्रे 'कथम्' ति गम्यम् । अपौद्गलिकमिति भवन्मतेऽपि । अथ तत्रेत्यादि परः । एताविति प्रवेश-निष्काशौ ॥९॥
(टि.) अथ तत्रेति पिहितकपाटसंपुटापवरके। तत्प्रवेशेति गन्धप्रवेश-निःसारौ। तदल्पीयस्तेति गन्धाल्पत्वम् । न त्वपावृतेति उद्घाटितद्वारावस्थावत् । तदेकार्णवत्वमिति सर्वत्र परिमलैक्यम् । एताविति प्रवेश-निष्काशौ। तुल्ययोगक्षेमत्वादिति समानवचनीयत्वात् ।
पूर्व पश्चादित्यादि ॥ सौदामिनीति तत्कालं चपलाविलासे उल्कापाते च संवृत्ते पूर्व पश्चाच्च अवयवा नोपलभ्यन्ते, ते नाऽपौद्गलिकाः चक्षुषः प्रत्यक्षेणानुभूयमानत्वात् ।
सूक्ष्ममूर्त्तत्यादि ॥ धूमादिभिरिति न तैः किमपि प्रेर्यते। नसीति नासिकायाम् । तद्विवरद्वारेति नासिकारन्ध्रमुखोत्पन्नकूर्चबालकं दृश्यते।
पुनरस्येति शब्दस्य ॥९॥
पदवाक्ये व्याकुर्वन्ति- . वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ॥१०॥
६१ वर्णौ च वर्णाश्चेत्येकशेषात् ब्रह्मसंबोधने क इत्यादौ द्वयोः, गौरित्यादौ बहूनां च वर्णानाम् । अन्योन्यापेक्षाणाम्-पदार्थे प्रतिपत्तौ कर्त्तव्यायां परस्पर सहकारितया स्थितानाम् । निरपेक्षा--पदान्तरवर्तिवर्णनिर्वतितोपकारपराङ्मुखी संहतिमलकः पदमभिधीयते, पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः ।
२ प्रायिकत्वाच्च वर्णद्वयादेरेव पदत्वं लक्षितम् । यावता विष्णुवाचकैकाक्षराकारादिकमपि पदान्तरवर्तिवर्णनिर्वतितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम् ।
६३ पदनां पुनः स्वोचितवाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मितोपकारमनुसरता वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्पत्तेः ॥१०॥
१ 'तत्र' इति टिप्पणसंमतः पाठः । २ सव्यभिचारि० टिप्पणसंमतः पाठः ।
१६