________________
शब्दनित्यत्वनिरासः।
१०७ (५०) आभेजानमिति प्राप्तम् । कथमित्यादि याज्ञिकः । तद्रूपेऽपीति एकान्तैकरूपे नित्ये इत्यर्थः । तदशस्यमिति जैनः । तस्यापीति आत्मनोऽपि । कथञ्चिदिति पर्यायार्थतया।
अस्येति प्रत्यक्षस्य ।
इयं प्रतीतिरिति उत्पत्ति-विपत्तिप्रतीतियथासंख्यम् । इयमिति प्रतीतिः । तदुत्पत्ति-विपत्तिस्वीकृताविति कुटादेः उत्पत्ति-विपत्तिस्वीकृतौ। तालु-चातादिहेतुव्यापारप्रेक्षणादिति ताल्वादय उत्पत्तिहेतवः, वातादयो विपत्तिहेतवः। तत्स्वीकार इति उत्पत्तिविपत्तिस्वीकारः । तदस्त्विति अभिव्यक्त्यनभिव्यक्तिकृते एव उत्पत्ति-विपत्ती इत्यस्तु । न चेत्यादि सुरिः । तथाप्रतीतिरिति उत्पत्ति-विपत्तिप्रतीतिः । उपापादीत्यतोऽग्रे कथमिति गम्यम् । दिनकरेत्यादिगये उदयादि व्यपादीति पदद्वयं सह यथासंख्यम् । अस्येति कुम्भादेः। तथेयमिति विपत्तिप्रतीतिः । नोपलम्भ इति पर्वतादेः । अथ क्वापीत्यादिगद्ये अहो याज्ञिक ! अथैवं वक्ष्यसि । तत्सत्त्वाविरोधित्वादिति कुम्भादिपदार्थसत्त्वाविरोधित्वात् । निश्चीयते इत्यग्रे अतो न तत्र विपत्तिप्रतीतिरिति गम्यम् । प्रमाणमस्तीत्यग्रे येन दृष्टान्तदर्शने नास्मान् वोधयसि इति गम्यम् । ओमिति चेदिति नास्ति प्रमाणमित्यर्थः । साधकेत्यादि सूरिः। असत्त्वमस्त्विति तथा चानभिव्यक्तिभाषणं मृषा । अस्त्येवेति याज्ञिकः । व्यक्ति. भावाभावयोरिति सूर्य-तिमिरकृतयोः । अनापीति शब्देऽपि । उदय-व्ययाध्यवसाय इति व्यक्तिभावाभावकृतः । न स्यादिति न प्राप्नोति । अनन्यथासिद्धप्रत्यक्षप्रतिवद्ध एवेति उत्पेदे विपेदे च वागिति अमुं प्रकारं विनापि सिध्यत्युदय-व्ययाध्यवसायः।
कथंचिदिति तादात्म्येन नित्यानित्यत्वेनेत्यर्थः । एकान्तैकरूपतायां ध्वनेः 'स एवेति पूर्वानुभूतार्थस्वरूपम्, अयमिति वार्त्तमानिकस्वरूपमिति स्वभावद्वयं न स्यात्, नित्यत्वेनैकस्व. भावत्वात्तस्य ।
(टि०) तपेऽपीति एकान्तनित्येऽपि । तस्यापोति आत्मनः । अयमिति स एवायं गकार एवंरूपः । अस्येति प्रत्यक्षस्य । अनन्यथासिद्धत्वादिति शब्दस्याऽनित्यत्वमन्तरेण उत्पत्तिविपत्तिलक्षणं प्रत्यक्षं शन्दे न सिध्यतीत्यर्थः ।
इयमिति प्रत्यक्षरूपा प्रतीतिः । इयमिति प्रतीतिः । तथेति स एवाय कट इत्यादिलक्षणा। तदुत्पत्तीति घटायुत्पत्ति-विनाशौ स्वीक्रियेते चेत् । तत्स्वीकार इति उत्पत्ति-विपत्त्यगीकारः। तदस्त्विति अभिव्यक्त्यनभिव्यक्तिमात्रत्वं भवेत् । तथेति उत्पत्ति-विपत्तिरूपा। तिमि रावरणेत्यादि । अस्येति घटादिपदार्थसार्थस्य । तथेति उत्पत्ति-विपत्तिरूपा। इयमिति प्रतीतिः। नोपलम्भ इति । इच्छाद्यभावे सति । तत्सत्त्वेति घटादिसत्त्वस्य। तत्सत्त्वमिति घटादिसत्त्वम् । ओमितीति तथेति नास्त्येव प्रमाणमिति "ओम् आं परमं मते" [अभिधानचिन्ता० क० ६ लौ०१७६] इति वचनात् । तदितीति प्रमाणम् । अस्येति प्रत्यभिज्ञादिकस्य । अत्रापीति शव्देऽपि । उदयेति प्रत्यभिज्ञादिज्ञानवलेन व्यक्तिभावस्योदयः, व्यक्त्यभावस्य व्ययः, तयोरध्यवसायः। अयमिति उदय-व्ययाध्यवसायः ।
६३ अनित्यः शब्दः, तीव्र-मन्दतादिधर्मोपेतत्वात्, सुख-दुःखादिवदित्यनुमानबाधः । व्यञ्जकाश्रितास्तीत्रतादयः तत्राभान्तीति चेत्, किं तत्र व्यञ्जकम् ? कोष्ठवायुविशेषा