________________
४. ७.j
वेदापौरुपेयत्वनिरासः ।
१०१
(प.) अस्येति वेदस्य ।
अपकृष्टानामिति निराकृतानां दोषाणाम् । शक्यतां कथमित्यतोऽये तत चेति गम्यम् । अयमिति वेदः ।
(प०) विरुद्धत्वादिति पौरुषेयत्वसाधनात् । कथमित्यादि मीमांसकः । कथं पितृ-पितेत्यादि सूरिः । असाविति ववतुर्गुणित्वनिश्चयः । अन्यत्रापीति श्रुतावपि । प्रतीहीत्यतोऽग्रे कथमिति गम्यम् । मन्त्रादित्यग्रे 'प्रतीताप्तत्वच कः' इति परमाशङ्कयाह । प्रतिपादितश्च प्रागिति द्वितीयपरिच्छेदे । रागद्वेषेत्यादि स एव चाप्तः ।
(टि०) अथ अर्थापत्तरित्यादि ॥ एष इति वेदः। तन्निर्णय इति प्रामाण्यनिश्चयः । अस्येति वेदस्य ।
शब्दे दोपोद्भव इत्यादि । तदभाव इति दोषाभावः । तद्गुणैरिति गुणवद्वक्तृकत्वगुणैः । अपकृष्टानामिति निष्काशितानां दोषाणाम् । संक्रान्त्यसंभवादिति संक्रमणाऽभावात्
अयमितीति वेदः ।
एप इति वेदः। अनुत्तरोत्तरेति प्रधानमेवोत्तरं तस्य भेदः। अस्येति वेदस्य । साध्यः सिद्धिरिति अपौरुषेयत्वसिद्धिर्न । विरुद्धत्वादिति श्रुतिरपौरुषेयी प्रामाण्यान्यथानुपपत्तरिति हेतोविरुद्धत्वम् । तदुभयाभावे इति गुणवद्वक्तृकत्व-रागादिमद्वक्तृकत्वपुरुषाभावे । छन्दसीति वेदे। असाविति गुणित्वनिश्चयः । येनेति गुणित्वनिश्चयेन । तद्धस्तन्यस्तेति तस्य पितामह-प्रपितामहादेः करलिखितवर्णपद्धतेः । पारस्पयति पूर्वजपरम्परायाः श्रुतस्य वा। अत एवेति संवादादेव । अन्यत्रापीति वेदेऽपि । कारीर्यादाविति ग्रन्थविशेषे वृष्टिनिमित्तम् इष्टिः कारीरी, कारणे कार्योपचारात् कारीरीनामग्रन्थविशेषोपदिष्टमन्त्रनिवर्त्यत्वात् कारीरी। प्रतीताप्तत्वेति प्रतीतमवगतमाप्तत्वं यस्य स तेन कथितमन्त्रवत् ।
६७ किंच, अस्य व्याख्यानं तावत् पौरुषेयमेव, अपौरुषेयत्वे भावना-नियोगादिविरुद्धव्याख्याभेदाभावप्रसङ्गात्, तथा च को नामात्र विश्रम्भो भवेत् ? कथं चैतद्ध्वनीनामर्थनिर्णीतिः ? लौकिकध्वन्यनुसारेणेति चेत् , किं न पौरुपेयत्वनिर्णीतिरपि तत्रोभयस्यापि विभावनात् ? अन्यथा त्वर्द्धजरतीयम् । न च 'लौकिकार्थानुसारेण मदीयोऽर्थः स्थापनीयः' इति श्रुतिरेव स्वयं वक्ति । न च जैमिन्यादावपि तथाकथयति प्रत्यय इत्यपौरुषेयवचसामर्थोऽप्यन्य एव कोऽपि संभाव्येत । पौरुषेयीणामपि म्लेच्छाऽऽर्यवाचामैकार्थ्यं नास्ति, किं पुनरपौरुषेयवाचाम् ? ततः 'परमकृपापीयूषप्लावितान्तःकरणः कोऽपि पुमान् निर्दोषः प्रसिद्धार्थैर्ध्वनिभिः स्वाध्यायं विधाय व्याख्याति, इदानींतनग्रन्थकारवत्' इति युक्तं पश्यामः ।
अवोचाम च
"छन्दः स्वीकुरुषे प्रमाणमथ चैतद्वाच्यनिश्चायकम् । कञ्चिद्विश्वविदं न जल्पसि ततो जातोऽस्यमूल्यक्रयी ॥” इति ।