________________
४. ७
वेदापौरुपेयत्व निरासः।
कालासुरं तत्कारं न मन्यामहे इति ब्रूते । स्मरणमिति भवदीयम् । नैवमिति सूरिः । यत्रैवेति कालासुरादौ । न पुनः कर्तृमात्रस्मरणमपीति कालासुरः कर्ता मा भवतु, तथापि केनचित् का भाव्यमेव ।।
(प०) गुर्वध्ययनपूर्वकमिति गुरोः पावें यदध्ययनं तत्पूर्वकम् । वेदाध्ययनवाच्यत्वादिति वेदाध्ययनमिति यः शब्दस्तेन वाच्यत्वात् । . (टि.) तत्कृतत्वादेवेति कण्व-माध्यदिनादिमुनिकृतत्वादेव यथा मनुकृता मानवी स्मृतिः। उत्सस्नानामिति विच्छेदप्राप्तानाम्। तासामिति शाखानाम् । कल्पादाविति सृष्टिरचनासमये। तैरिति कण्व-माध्यदिनादिभिः । तन्नामेति कण्वाद्यभिधानलक्षणेन। अनादाविति आदिवर्जिते । यद्यनादिकालिना श्रति चेत्तैः कण्वादिभिरनेकवारं प्रकाशितत्वादनेककर्तृकत्वप्रसङ्गः तन्नामचिहेन ताप्रतीतिसद्भावात् । तासामिति शाखानाम् । एतत्करिमिति वेदकर्तारं कालासुरनामान दैत्यमामनन्ति ।
वेदस्याध्ययनेत्यादि। उत्तर विकल्पोभयीं पराचिकीर्षुः कारिकोक्त लोकवलात्परपरिभावितं पक्षद्वितयं सूरिः प्रादुर्भावयति । अधुनाध्ययनमिति इदानींतनवेदपठनवत् । हेतू इति हेतू कारिकोक्तावपि । प्रक्रान्तेति 'कुरङ्गशृङ्गभङ्गुरं कुरङ्गाक्षीणां चेतः' इति । सकर्णानां विदुषाम् अनाकर्णनीयो न श्रोतव्याविति संवन्धः ।
६. अथ अर्थापत्तरपौरुषेयत्वनिर्णयो वेदस्य । तथाहि-संवाद-विसंवाददर्शनाऽदर्शनाभ्यां तावदेष निःशेषपूरुषैः प्रामाण्येन निरणायि । तन्निर्णयश्चास्य पौरुषेयत्वे दुरापः । यतः
"शब्दे दोपोद्भवस्तावद् वक्त्रधीन इति स्थितिः । तदभावः क्वचित्तावद् गुणवद्वक्तृकत्वतः ॥” [श्लो० चो० ६२ ] सद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात् । वेदे तु गुणवान् वक्ता निर्णेतुं नैव शक्यते ॥ ततश्च दोषाभावोऽपि निर्णेतुं शक्यतां कथम् । वक्तभावे तु सुज्ञानो दोषाभावो विभाव्यते ॥
यस्माद्वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥" ततः प्रामाण्यनिर्णयान्यथानुपपत्तेरपौरुषेयोऽयमिति ।
अस्तु तावदत्र कृपणपशुपरम्पराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशापवित्रत्वादप्रमाणमेवैष इत्यनुत्तरोत्तरप्रकारः । प्रामाण्यनिर्णयेऽप्यस्य न साध्यसिद्धिः, विरुद्धत्वाद् , गुणवक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्तेः । पुरुषो हिं यथा रागादिमान् मृषाबादी, तथा सत्य-शौचादिमानवितथवचनः समुपलब्धः । श्रुतौ तु तदुभयाभावे नैरर्थक्यमेव भवेत् । कथं वक्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्, कथं पितृ-पितामह-प्रपितामहादेरप्यसौ ते स्यात् येन तद्धस्तन्यस्ताक्षरश्रेणेः, पारम्पर्योपदेशस्य वाऽनुसारेण ग्राह्य
१ पूर्वार्धमेव श्लोक० चो० ६३ । २ यद्वा वक्तु इति पाठान्तरेण सह श्लो. चो०६३ ।