SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ( 768 ) हरिवंश पुराण. By रामचन्द्र. Beg.-ऊंनमः सिद्धेभ्यः। श्रीमते नेमिनाथाय केवल-ज्ञान-मूर्तये। स्याद्वाद-वादिने नित्यं नमोऽस्तु भवहारिणे ॥ १ ॥ यल्लोकेन्द्र, नलं नेमि प्रह्वीकृत्य गुणार्णवम् । हरिवंश-पुराणस्य समासो वर्ण्यते मया ॥ २ ॥ जिनसेन समुद्रय पारं गन्तुं न पार्यते। भव्यैः काल-प्रभावेन तदर्थः श्रुति-सुन्दरः ॥ ३ ॥ लंबकंचुकवंशेऽसौ जातोजन-मनोहरः । शोभनाङ्गः स्वभगारव्यो देवकी यस्यवल्लभा ॥ ४ ॥ तदात्मजः कलावदी विश्व-गुण विभूषितः । रामचन्द्राभिधः श्रेष्ठी मल्हणा वनिता प्रिया ॥ ५ ॥ तत्सूनुजन विख्यातः शील-पूजाद्यलकृतः । अभिमन्यु महादानी तत्प्रार्थनवशादसौ ॥ ६ ॥ शृण्वन्ति य इंद भक्त्या भव्याः सुकृतमूर्तयः । प्रामुवन्ति महाभोगान्तपोपवर्गमच्युतम् ॥ ७ ॥ चारु-वाक्य-प्रबंधन कथां संकलनात्मना । प्रोच्यते जिनसेनेन शृण्वन्तु भुविकोविदाः ॥ ८ ॥ End.-यादवान्वय-विभूषणी भुवा दान-पूजन-विनोद-चेतसा । कारितेयमभिमन्युना मुदा सान्वयश्रवण-हेतुका कथा ॥ ३ ॥ यदुक्तं जिनसेनेन सूरीणां भव्य-बंधुना । तन्मया रामचन्द्रेण संक्षेपेणैव भाषितम् ॥ ४ ॥ यावद्रत्नाकरो लोके यावन्मेरु धुराशना । तावदयं समासो हि तिष्ठतां महदाशये ॥ ५॥ इति हरिवंशपुराणसमासे अभिमन्युश्रेष्ठिनामांकिते नेमिनाथपरिनिर्वाणवर्णन पंचममधिकरणं समाप्तं ॥ छ ॥ संवत् १५६० वर्षे वैशाख वदि २ लिखितं । इति हरिवंश पुराणं समाप्तम् ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy