________________
( 756 ) नत्त्वा श्री वर्द्धमानाख्यं विवर्द्धितगुणाकरं । सिद्धांतागमशास्त्रस्य कुइँशस्तां प्रशस्तिकां ॥ १ ॥ प्रमदांवर-सद्रव्य-सम्मिते समये वरे । कार्तिके मासिशुक्लायां पंचम्यां भौमवासरे ॥ २ ॥ संवत् १५०६ कार्तिक सुदि ५ भौमवासरे। गोपाचलमहादुर्गे चतुर्वर्णसमाकुले । निजा स्याद्धितस्वग्र पुरे जिनमतोदये ॥ ३ ॥ तत्रास्ति - नरेंद्रोहि धरे वादीभकेशरी । डंगरेंद्रोन्यराजेंद्रमंडलीमंडितो महान् ॥४॥ श्रीकाष्ठसंघविख्यात माथुरान्वयसन्मणौ । गणेशगण-संभूतिसत्खनौ पुष्करे गणे ।। ५ ॥ श्रीगौतमान्वयायातानंतकीर्तेः पदाग्रणीः । पट्टाचार्योंहि तेजस्वी कंजकीतिरभृद्यमी ॥ ६ ॥ जैनागमाध्यात्मविचारदक्षो व्यक्तीकृतात्मार्थपरार्थरक्षः। तस्यास्ति पट्टे मुनिवृंदवंद्यः श्रीक्षेमकीर्तिवरपुण्यमूर्तिः ।। ७ ।। श्रीक्षेमकीर्तिः कुमुदेन्दुकीर्तिः प्रकाशितश्रीजिनधर्मकीर्तिः । तत्पट्टचूडामाणरेवजात स्तीर्थेशसत्तीर्थसुधौतमूर्तिः ॥ ८ ॥ पट्टोदयाद्रिशिखरे मुनिहेमकीर्तिः प्राप्तोदयः कमलकीर्तिरखडकीर्तिः । साहित्यलक्षणविवादपटु : प्रमाणी मिथ्यात्त्ववादिकुमुदाकरचंडरश्मिः ॥ ९ ॥ तेषामाम्नायविख्यातागोतकान्वयभूषणे । गर्गोत्र ऽभवत्साधुवरदेवो महत्तरः ॥ १० ॥ तस्य पुत्रो जिनेद्रोक्तपात्रासन्न ।
(Inco plele manuscrir)