________________
(726 ) ॥धत्ता ॥ इय बुत्थिविपत्ते पुण्णपवित्ते दिज्जइ सइंविलसिज्जइ ।
एत्तिउ फलु अत्थे जणियाणत्थे जं दुस्थियणि वइज्जइ ॥२॥
End.--|| घसा ॥ गरहेप्पिणु दुव्विलसियं सिरिचंदुजलउ ।
लइउ धम्मु जइणेसरु सासयसुहणिलउ ॥ १४ ॥ विविहरसविसाले ॥ इत्यादि। मुणिसिरिचंदकए कहकोसे एत्थ जणमणाणंदे । एसो पन्नासमउ तिहि अहिउ समणिउ संधी ॥ (५३) ॥
अथ प्रशस्तिः । सर्वज्ञशासन रम्ये घोराघौघ-विनाशने । धर्मानेकगुणाधारे सूरस्थे सुरसंस्तुते ॥ १ ॥ अणहिल्लपुरे रम्ये सज्जनः सज्जनोऽभवत् । प्राग्वाटवंशनिष्पन्नोमुक्तारत्नशताग्रणीः ॥ २॥ मूलराजनृपेन्द्रस्य धर्मस्थानस्य गोष्टिकः । धर्मसार-धराधारः कूर्मराजसमः पुरा ॥ ३ ॥ कृष्णनामा सुतस्तस्य गुणरत्नमहोदधेः । वभूव धर्मकर्मण्ये जनानां मौलिमंडन ॥ ४ ॥ निद्रान्वयमहामुक्तामालायां नायकोपमः। चतुम्बिधस्य संघस्य दान-पीयूष--वारिदः ॥५॥ श्वसैकाजयती तस्य कृष्णस्येव सुभद्रिका ।। राणू नामप्रिया साध्वी हिमांशोरिव चन्द्रिका ॥ ६॥ तस्यां पुत्र-त्रयं जातं विश्वसर्वस्वभूषणं । बीजासाहणपालाख्यौ साढदेवस्तृतयिकः ॥ ७ ॥ चतस्रश्च सुतास्तस्या धर्मकम्मैककोविदाः । सिरीश्रृंगारदेवी च सुंदूः सोखूरिति क्रमात् ॥ ८ ॥ कलिकालमहाव्यालविषव्यालुप्तचेतसः । जैनधर्मस्य संपन्ना जीवातु स्तत्र सुंदका ॥ ९॥ महाश्रावककृष्णस्य संतानेन शुभात्मना । व्यारव्यापितः कथाकोशः स्वकर्मक्षयहेतवे ॥ १० ॥ कुंदेंदुनिर्मले कुंदकुंदाचार्यान्वयेऽभवत् । धर्मो मूर्तः स्वयं वाश्रीकीर्तिनामा मुनीश्वरः ॥ ११ ॥