SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ( 742 ) कवीन्द्रसीमानमितै यदुक्तं गणेश्वराद्यैरपि विस्तरेण । तत्पादपद्मद्वयभक्तिशक्तया संक्षिप्य तद्वक्तुमयं श्रमोनः ॥ ४ ॥ द्वीपोऽथजम्बूपपदोऽस्ति मध्ये द्वीपांतराणामिव पार्थिवानाम् । यो वाहिनीनाथवृतःसुवृत्तो नित्यं जिगीषुप्रतिमश्चकास्ति ॥ ५॥ End.-राज्यं प्राज्यमुदस्य निर्ममतमं तप्त्वा तपो दुश्चरं ध्यानामी सकला विकर्मसमिधो हुत्वाप यः केवलम् । यावदज्ञेयविसर्पिविश्वकरणग्रामातिगं निश्चलं देयाद्वःपदमव्ययं स भगवान सार्वोऽनिरुद्धो विभुः ॥ ६६ ॥ इति श्री सिन्धुराजसत्तमहामहत्तम श्री पप्पटगुरोः महासेनाचार्यकृते प्रद्युम्नचरिते चतुर्दशः सर्गः ॥ १४ ॥ ग्रंथाग्र. २३७५ (प्रशस्ति) श्री लाटवर्गटनभस्तलपूर्णचन्द्रः शास्रार्णवांतगसुधीस्तपसां निवासः ।। कान्ताकलावपि न यम्य शरैविभिन्न स्वान्तं वभूव स मुनिर्जयसेननामा ॥१॥ तीर्णागमांबुधिरजायत तस्य शिप्यः श्रीमद्गुणाकरगुणाकरसेनसूरि र्यो वृत्तबोधतपसा यशसा च नूनं प्रापत्परामनुपमामुपमांमुनीनाम् ॥ २ ॥ तच्छिष्यो विदिताखिलोरुसमयो वादी च वाग्मी कविः । शब्दब्रह्मविचित्रधामयशसां मान्यां सतामग्रणीः ॥ आसीत् श्री महसेनसरिरनघःश्रीमुंजराजार्चितः । सीमादर्शनबोधवृत्ततपसां भव्याब्जिनीबांधवः ॥ ३ ॥ श्रीसिन्धुराजस्य महत्तमेन श्रीपप्पटेनाचितपादपद्मः । चकार तेनाभिहितःप्रबंध स पावनं निष्ठितमंगजस्य ॥ ४॥
SR No.011132
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts In the Central Provinces and Berar
Original Sutra AuthorN/A
AuthorRai Bahaddur Hiralal
PublisherCentral Provins and Berar
Publication Year
Total Pages887
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy