________________
( 733 ) तत्सत्कारपुरस्कृतेन सततं तज्जैनतादर्शनात् संतुष्टेन तदार्जवादिसुगुणैर्दृष्टेन पुष्टेन च । तस्य प्रार्थनया सुसंस्कृतवचोबंधेन सन्निर्मितो ग्रंथोऽयं त्रिजगत्स्वरूपकथनः सत्पुण्यनिर्मापणः ॥ ६४ ॥ वंशे नैगमसंज्ञके ऽजनिसुधी जैने प्रतिष्ठाविधावाचार्यों जिनभाक्त तत्पर-मना यो वामदेवावयः । तेनालोक्य समस्तमागमविधिं त्रैलोक्य-दीपाभिधो ग्रंथः साधुकृतो विशोध्य सुधियस्तन्वन्तु पृथ्वीतले ॥ ६५ ॥ वक्तश्रोत्रणुमंतृणां विशदंजैनशासनं । भव्यानामहतां भृयात्प्रशस्तं सर्वमंगलम् ६६ ॥
इतीन्द्रवामदेवविरचित पुरवाटवंशविशेषकश्री नेमिदेवस्य यशःप्रकाशके त्रैलोक्यदीपके ऊवलोक व्यावर्णनो नाम तृतीयोऽधिकारः समाप्तः । शुभभूयात ।
धन्यकुमारचरित्र.
By गुणभद्र. Beg.-ऊंनमो वीतरागाय।
स्वयंभुवं महावीरं लब्धानंतचतुष्ठयं । शतेन्द्रप्रणतं वंदे मोक्षाय शरणं सताम् ॥ १ ॥ प्रणमामि गुरुश्चैव सर्वसत्त्वाभयंकरान् । रत्नत्रयेण संयुक्तान्संसारार्णवतारकान् ॥ २ ॥ दिश्यात्सरस्वती बुद्धिं मममन्दधियो दृढां। भक्त्यानुरंजिता जैनी मातेव पुत्रवत्सला ॥ ३ ॥ स्याद्वादवाक्यसंदर्भ प्रणम्य परमागमम् । श्रुतार्थभावनां वक्ष्ये कृतपुण्येन भाविताम् ॥ ४ ॥ क्षमंतु सज्जनाः सर्वे ये समंजसबुद्धयः । शोधयंतुपदं दुष्टं विशुद्धं स्थापयन्तु ते॥५॥ दुर्जना अपि नन्दन्तु छिद्रान्वेषणतत्पराः । येषां भयेन नैपुण्यं सर्वेषामपि जायते ॥ ६ ॥ अथास्ति भारत क्षेत्रं जम्बूद्वीपसुरप्रियम् । खेटकवंटनद्याद्रिनगराकारमंडितम् ।। ७ ।।