________________
(727) तस्मात्तमोपहः श्रीमान्सप्रभावोऽतिनिर्मलः । श्रुतकीर्तिः समुत्पन्नो रत्नं रत्नाकरादिव ॥ १२ ॥ विद्वान्समस्तशास्त्रार्थविचारचतुराननः । शरच्चन्द्रकगकार-कीर्तिव्याप्तजगत्रयः ॥ १३ ॥ व्यारव्यातृत्वकवित्वादिगुणहंसैकमानसः । सकेशशासनाकाशशरत्पार्वणचन्द्रमाः ॥ १४ ॥ गांगेय-भोज-देवादिसमस्तनृपपुंगवैः । पूजितोत्कृष्टपादारविंदो विध्वस्तकल्मषः ॥ १५ ॥ भव्यपद्माकरानंदी सहस्त्रांशुश्विापरः । ततो गुणाकरः कीर्तिसहस्रोवपदोजनि ॥ १६ ॥
कर्पूरपुरोज्ज्वलचारुकीर्तिः
सर्वोपकारोद्यतचित्तवृत्तः । शिष्यः समाराधितवीरचंद्र स्तस्य प्रसिद्धो भुवि वीर्यचंद्रः ॥ १७ ॥ सूरेश्चारित्रसूर्यस्य तस्य तत्त्वार्थवेदिनः । विवेकवसतिर्विद्वान्सोऽस्य श्री श्रीचंद्रोऽभवत् ॥ १८ ॥ भव्यप्रार्थनया ज्ञात्वा पूर्वाचार्यकृतां कृतिं । तेनायं रचितः सम्यक् कथाकोशोऽतिसुंदरः ॥ १९ ॥ यदत्रस्खलितं किश्चित्प्रमादवशतो मम । तत्क्षमंतु क्षमाशीलाः सुधियःशोधयंतुच ॥ २०॥ यावन्महीमरुन्मामरुतोमंदरोरगाः । परमेष्टीपावनोधर्मः परमार्थपरमागमः ॥ २१ ॥ यावत्सुराः सुराधीशः स्वर्ग-चंद्रार्कतारकाः । तावत्काव्यमिदं स्थेयाच्छ्रीचंद्रोज्वल कीर्तिमत् ॥ २२ ॥
इति श्रीकथाकोशः संपूर्णः ॥ संवत् १७८७ वर्षे भाद्रवा शुदि ५ शुक्रे ॥ श्रीरस्तु ॥ श्री सुरति बंदिरे वासुपूज्यचैत्यालये लिखापितमिदं पुस्तकं श्री मूलसंघे सरस्वतीगछे बलात्कारगणे श्रीकुन्दकुंदाचार्यान्वये मलयखेडसिंहासनाधीश्वरकार्यरंजकपुरवासि महारक श्रीधर्मचंद्रदेवारतत्पट्टे भट्टारक श्रीदेवेंद्रकीर्तय स्तैर्लिखापितं आर्थिका श्रीपासमतिपरोक्षदत्तवित्तेन ॥