________________
गणितसारसङ्ग्रहः. प्रिय विशोध्य चतुर्गुणषटुतः . कथय शेषधनप्रमिति द्रुतम् ॥ १२८ ॥
भागमागापवाह उद्देशकः । द्विगुणितपञ्चमनवमत्र्यंशाष्टांशद्विसप्तमान क्रमशः । खषडंशपादचरणव्यंशाष्टमवर्जितान् समस्य वद ॥ १२९ ॥ षट्सप्तांशस्वषष्ठाष्टमनवमदशांशैर्वियुक्तः पणस्य स्यात्पश्चद्वादशांशस्वकचरणतृतीयांशपश्चांशकोनः । खद्विव्यंशद्विपञ्चांशकदलवियुतः पञ्चषड्भागराशिदिव्यंशोऽन्यस्वपश्चाष्टमपरिरहितस्तत्समासे फलं किम् ॥ १३० । अर्ध व्यष्टमभागपादनवमैस्वीयविहीनं पुनः . खैरष्टांशकसप्तमांशचरणैरूनं तृतीयांशकम् । अध्यर्धात्परिशोध्य सप्तममपि स्वाष्टांशषष्ठोनितं शेषं ब्रूहि परिश्रमोऽस्ति यदि ते भागापवाहे सखे ॥ १३१ ॥
अत्राग्राव्यक्तभागानयनसूत्रम्लब्धात्कल्पितभागा रूपानीतापवाहफलभक्ताः । क्रमशः खण्डसमानास्तेऽज्ञातांशप्रमाणानि ॥ १३२ ॥
अत्रोद्देशकः । कश्चित्स्वकै चरणपञ्चमभागषष्ठैः कोऽप्यंशको दलषडंशकपञ्चमांशैः । हीनोऽपरो हिगुणपश्चमपादषष्ठैः तत्संयुतिर्दलमिहाविदितांशकाः के ॥ १३३ ॥