________________
84
गणितसारसङ्ग्रहः
अत्रोद्देशकः । 'जम्बूजम्बीरनारङ्गचोचमोचाम्रदाडिमम् । अझैषीद्दळषड्भागद्वादशांशकविंशकैः ॥ ५७ ॥ । हेम्रस्त्रिंशचतुर्विशेनाष्टमेन यथाक्रमम् । श्रावको जिनपूजाये तद्योगे किं फलं वद ।। ५८ ॥ अष्टपञ्चदशं विशं सप्तषट्त्रिंशदंशकम् । एकादशत्रिषष्टयंशमेकविंशं च सक्षिप ॥ ५९ ॥ 'एकतिकत्रिकायेकोत्तरनवदशकषोडशान्त्यहराः । निजनिजमुखप्रमांशास्त्वपराभ्यस्ताश्च किं फलं तेषाम् ॥ ६ ॥ एकदिकत्रिकाद्याश्रतुराद्याश्चैकवृद्धिका हाराः । निजनिजमुखप्रमांशाः स्वासन्नपराहताः क्रमशः ॥ ६१ ॥ विंशत्यन्ताः षड्गुणसप्तान्ताः पश्चवर्गपश्चिमकाः । षटत्रिंशत्पाश्चात्याः सङ्क्षेपे किं फलं तेषाम् ॥ ६२ ॥ 'चन्दनघनसारागरुकुङ्कममकेष्ट जिनमहाय नरः। चरणदळविंशपभमभागैः कनकस्य किं शेषम् ॥ ६३ ॥ पादं पश्वांशमधे त्रिगुणितदशमं सप्तविंशांशकश्च स्वर्णद्वन्द्वं प्रदाय स्मितसितकमलं स्त्यानदध्याज्यदुग्धम् ।
Stapaus Nos. 67 and 68 are omitted in P. . This stanza is found in K and B. SANENO Bio. 63 and 64 are found in K and B.