________________
गणितसारसग्रहः
अत्रोद्देशकः । द्विमुग्यस्त्रिचयो गच्छश्चतुर्दश खेप्सितं पदं सप्त । अष्टनवषट्रपन च किंव्युत्कालतं समाकलय ॥ १११ ॥
षडादिरष्टौ प्रचयोऽत्र पटुतिः पदं दश द्वादश षोडशेप्सितम्।। मुखादिरन्यस्य तु पञ्चपञ्चकं
शतद्वयं ब्रूहि शतं व्ययः कियान् ॥ ११२ ॥ षड्डनमानो गच्छः प्रचयोऽष्टौ द्विगुणसप्तकं वक्रम् । सप्तत्रिंशत्खेष्टं पदं समावि फलमुभयम ।। ११३ ।। अष्टकृतिरादिरुत्तरमूनं चत्वारि षोडशात्र पदम् । इष्टानि तत्त्वकेशवरुद्रार्कपदानि कि शेषम् ॥ ११४ ॥ गुणव्युत्कलिनस्योदाहरणम्चतुरादिद्विगुणात्मकोत्तरयुतो गच्छ चतुर्णा कृतिदश वाञ्छापदमसिन्धुरगिरिद्रव्येन्द्रियाम्भोधयः । कथय व्यत्कलितं फलं सकलसन्जाग्रिम 'व्याप्तवान करणस्कन्धवनान्तरं गणितविन्मत्तेभविक्रीडितम् ॥ ११५ ॥ इति परिकर्मविधावष्टमं व्युत्कलितं समाप्तम् ।।
इति सारसनाहे गणितशास्त्रे महावीराचार्यस्य कृतौ परिकर्मनामा प्रथमो व्यवहारः समाप्तः ॥
18.