________________
140
गणितसारसङ्गहः. बाहु पञ्चव्युत्तरदशको भूमिश्चतुर्दशो विषमे । त्रिभुजक्षेत्रे बाहिरवृत्तव्यासं ममाचक्ष्व ॥ २१९ ॥ द्विकबाहुषडश्रस्य क्षेत्रस्य भवेद्विचिन्त्य कथय त्वम् । बाहिरविष्कम्भं मे पैशाचिकमत्र यदि वेत्सि ।। २२० ॥ इष्टसङख्याव्यासवत्समवृत्तक्षेत्रमध्ये समचतुरश्राद्यष्टक्षेत्राणां मुरव. ममुजसख्यानयनसूत्रम् --
लब्धव्यासेनेष्टव्यासो वृत्तस्य तस्य भक्तश्च । लब्धेन भुजा गुणयेद्भवेच्च जातस्य भुजसख्या ॥ २२१ ॥
अत्रोद्देशकः । वृत्तक्षेत्रव्यासस्त्रयोदशाभ्यन्तरेऽत्र सञ्चिन्त्य । समचतुर श्राद्यष्टक्षेत्राणि सरवे ममाचक्ष्व ॥ २२२ ॥
भायतचतुरश्रं विना पूर्वकल्पितचतुरश्रादिक्षेत्राणां सूक्ष्मगणितं प रज्जुसङ्ख्यां च ज्ञात्वा तत्तत्क्षेत्राभ्यन्तरावस्थितवृत्तक्षेत्रविष्कम्मानयन - सूत्रम्----
परिधेः पादेन अजेदनायतक्षेत्रसूक्ष्मगणितं तत् । क्षेत्राभ्यन्तरवृत्ते विष्कम्भोऽयं विनिर्दिष्टः ।। २२३ ।।
अत्रोद्देशकः। समचतुर श्रादीनां क्षेत्राणां पूर्वकल्पितानां च । कृत्वाभ्यन्तरवृत्तं ब्रह्मधुना गणिततत्त्वज्ञ ॥ २२४ ॥
समवृत्तव्याससङ्ख्यायामिष्ट सङ्ख्या बाणं परिकल्प्य तद्वाणपरिमाणस्य ज्यासख्यानयनसूत्रम---