________________
182
गाणतसारसग्रहः. खाष्टहतात्सेष्टकतेः कृतिमूलं चेष्टमितरदितरहतम् । ज्येष्ठं स्वल्पा!नं स्वल्पार्ध तत्पदेन चेष्टेन ।। १६० ॥ क्रमशो हत्वा च तयोः सङ्कमणे भूभुजौ भवतः । इष्टार्थमितरदोः स्याद्विषमत्रकोणके क्षेत्रे ॥ १६१ ॥ '
__ अत्रोद्देशकः । हे रूपे सूक्ष्मफलं विषमत्रिभुजस्य रूपाणि ।
त्रीणीष्टं भूदोषो कथय सरवे गणिततत्त्वज्ञ ॥ १६२ ।। सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समवृत्तक्षेत्रानयनत्रम्
गणितं चतुरभ्यस्तं दशपदभक्तं पदे भवेद्यासः । सूक्ष्मं समवृत्तस्य क्षेत्रस्य च पूर्ववत्फलं परिधिः ॥ १६३ ॥
__ मत्रोद्देशकः । समवृत्तक्षेत्रस्य च सूक्ष्मफलं पञ्च निर्दिष्टम् । विष्कम्भः को वास्य प्रगणय्य ममाशु तं कथय ॥ १६४६ ।।
व्यावहारिकगणितफलं च सूक्ष्मफलं च ज्ञात्वा तयावहारिकफलवतत्सूक्ष्मगणितफलवहिसमचतुरश्रक्षेत्रानयनस्य त्रिसमचतुरश्रक्षेत्रानयनस्य च सूत्रम
धनवर्गान्तरपदयुतिवियुतीष्टं भमुरवे भुजे स्थूलम् । हिसमे सपदस्थूलात्पदयुतिवियुतीष्टपदहतं त्रिसमे ॥ १६५३ ॥
अत्रोद्देशकः । गणितं सूक्ष्म पञ्च त्रयोदश व्यावहारिकं गणितम् । द्विसमचतुरश्रममुरवदोषः के षोडशेच्छा च ॥ ११९॥