________________
क्षेत्रगणितव्यवहारः.
129 द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गणितम् । . रज्जुः समा द्वयोरपि को बाहुः का भवेद्भमिः ॥ १३९॥
द्विसमत्रिभुजक्षेत्रे हे रज्जदिगणिता द्वितीयस्य । • गणिते द्वयोस्समाने को बाहः का भवेद्भूमिः ।। १४० ॥ द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं हिसङ्गणितम् । द्विगुणा द्वितीयरज्जुः को बाहुः का भवेमिः ।। १४१ ।।
एकट्यादिगणनातीतसङ्ख्यासु इष्टसण्यामिष्टवस्तुनो भाग - सयां परिकल्प्य तदिष्टवस्तुभागसङ्ख्यायाः सकाशात् समचतुर श्रक्षेत्रानयनस्य च समवृत्तक्षेत्रानयनस्य च समत्रिभुजक्षेत्रानानस्य चायत. चतुर क्षेत्रानयनस्य च सूत्रम
वसमीकृतावधृतिहतवनं चतुघ्नं हि वृत्तसमचतुर श्रयासः । षड्गुणितं त्रिभुजायतचतुर श्रभुजार्धमपि कोटिः ॥ ११२ ॥
अत्रौद्देशकः । स्वान्तःपुर नरेन्द्रः प्रासादतले निजाननामध् । दिव्यं स रनकम्बलमपीपतत्तच्च समवृत्तम् ॥ १४३ ।। ताभिर्देवीभिधृतमभिर्मुजयोश्च मुष्टिभिर्लब्धम् । पञ्चदशैकस्याः स्युः कति वनिताः कोऽत्र विष्कम्भः ।। १४ ४ ॥ समचतुर श्रभुजाः के समत्रिबाही भुजाधात्र ।
आयतचतुरश्रस्य हि तत्कोटिभुजो सरख कथय ।। १४५॥
क्षेत्रफलसङ्ख्या ज्ञात्वा समचतुर क्षेत्रानयनस्य चायतचतुरश्रक्षेत्रानयनस्य च सूत्रम्
सूक्ष्मगणितस्य मूलं समचतुरश्रस्य बाहुरिष्टहतम् । धनमिष्टफले स्यातामायतचतुरश्रकोटिमुजौ ॥ १४ ॥