________________
100
गणितसारसग्रहः
जयति हि पक्षी ते मे देहि स्वर्ण ह्यविजयोऽसि दद्यां ते । तड्वियंशकमद्येत्यपरं च पुनः स संसृत्य ।। २७१३ ॥ त्रिचतुर्थ प्रतिवाञ्छत्युभयस्माद्द्वादशैव लाभः स्यात् । . तत्कुकुटिककरस्थं ब्रूहि त्वं गणकमुवतिलक !! २७२ ॥ राशिलब्धच्छेदमिश्रविभागसूत्रम्--- मिश्रादूनितसङ्ख्या छेदः सैकेन तेन शेषस्य । भागं हत्वा लब्धं लाभोनितशेष एव राशिः स्यात् ।। २७३,
अत्रोद्देशकः । केनापि किमपि भक्तं सच्छेदो राशिमिश्रितो लाभः । पश्चाशत्रिभिरधिका तच्छेदः किं भवेल्लब्धम् ॥ २७४३ ॥ इष्टसङ्ख्यायोज्यत्याज्यवर्गमूलराश्यानयनसूत्रम्--- योज्यत्याज्ययुतिः सरूपविषमाग्रनार्धिता वर्गिता व्यग्रा बन्धहता च रूपसहिता त्याज्यैक्यशेषाग्रयोः । शेषैक्यार्धयुतोनिता फलमिदं राशिर्भवेद्वाञ्छयोस्त्याज्यात्याज्यमहत्त्वयोरथ कृतेर्मूलं ददात्येव सः ।। २७५ ॥
अत्रोद्देशकः । राशिः कश्चिदशभिः संयुक्तः सप्तदशभिरपि हीनः । मूलं ददाति शुद्धं तं राशि स्यान्ममाशु वद गणक ॥ २७६ ।। राशिस्सप्तभिरूनो यः सोऽष्टादशभिरन्वितः कश्चित् । मूलं यच्छति शुद्धं विगणय्याचक्ष्व तं गणक ॥ २७७ ॥