________________
गणितसारसङ्ग्रहः
अत्रोद्देशकः ।
मार्गे त्रिभिर्वणिग्भिः पोदृलकं दृष्टमाह तत्रैकः । पालकमिदं प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २३६ ॥ हस्तगताभ्यां युवया स्त्रिगुणधनोऽहं द्वितीय आहेति । ' पगुणोऽहं त्वपरः पोलह स्तस्थमानं किम् ॥ २३७॥ सर्वतुल्यगुणकपोट्टल कानयनहस्तगतानयनसूत्रम्-
96
व्येकपदव्येक गुणेष्टांशवघोनितांशयुतिगुणघातः ! हस्तगताः स्युर्भवति हि पूर्ववदिष्टांशभाजितं पोट्टलकम् ॥ २३८ ॥ अत्रोद्देशकः ।
वैश्यैः पञ्चभिरेकं पोट्टलकं दृष्टमाह चैकैकः । पोट्टलकषष्ठसप्तमनवमाष्टमदशमभागमाप्त्वैव ॥ २३९ ॥ स्वस्वकरस्थेन सह त्रिगुणं त्रिगुणं च शेषाणाम् । गणक त्वं मे शीघ्रं वद हस्तगतं च पोट्टलकम् ॥ २४० ॥ इष्टशिष्टगुणपोट्टलकानयनसूत्रम -
इष्टगुणन्नान्यांशाः सेष्टांशाः सैकनिजगुणहता युक्ताः । पदनेष्टशिन्यूनाः सैकेष्ट गुणहता हस्तगताः ॥ २४१ ॥ अत्रोद्देशकः ।
द्वाभ्यां पथि पथिकाभ्यां पोट्टलकं दृष्टमाह तत्रैकः । अस्यार्ध सम्प्राप्य द्विगुणचनोऽहं भविष्यामि ॥ २४२ ॥
अपरस्त्र्यंशद्वितयं त्रिगुणधनस्त्वत्करस्थधनात् । मत्करधनेन सहितं हस्तगतं किं च पोट्टलकम् ॥ २४३ ॥
दृष्टं पथि पथिकाभ्यां पोट्टलकं तद्गृहीत्वा च । द्विगुणमभूदाद्यस्तु स्वकरस्थधनेन चान्यस्य ॥