________________
88
गणितसारसङ्ग्रहः
अत्रोद्देशकः । एकक्षयमेकं च द्विक्षयमेकं त्रिवर्णमेकं च । वर्णचतुष्के च हे पञ्चक्षयिकाश्च चत्वारः ॥ १७० ॥ सप्त चतुर्दशवर्णास्त्रिगुणितपञ्चक्षयाश्चाष्टौ । एतानेकीकृत्य ज्वलने क्षिप्त्वैव मिश्रवर्ण किम् । एतमिश्रसुवर्ण पूर्वेभक्तं च किं किमेकस्य ॥ १७१ ॥ इष्टवर्णानामिष्टस्ववर्णानयनसूत्रम्स्वैस्स्वैर्वर्णहमिश्रं स्वर्णमिश्रेण भाजितम् । लब्धं वर्ण विजानीयात्तदिष्टाप्तं पृथक् पृथक् ॥ १७२३ ॥
अत्रोद्देशकः। विंशतिपणास्तु षोडश वर्णा दशवर्णपरिमाणैः । परिवर्तिता वद त्वं कति हि पुराणा भवन्त्यधुना ॥ १७३ ॥ अष्टोत्तरशतकनकं वर्णाष्टांशत्रयेण संयुक्तम् ।। एकादशवर्णं चतुरुत्तरदशवर्णकैः कृतं च किं हेम ।। १७४ ॥ अज्ञातवर्णानगनसूत्रम्कनकक्षयसंवर्ग मिश्रं वर्णनमिश्रतः शोध्यम् । स्वर्णेन हृत वर्ण वर्णविशेषेण कनकं स्यात् ॥ १७५ ॥ अज्ञातवर्णस्य पुनरपि सूत्रम्स्वस्वर्णवर्णविनिहतयोगं स्वर्णैक्यदृढहताच्छोध्यम् । अज्ञातवर्णहेना भक्तं वर्णं बुधाः प्राहुः ॥ १७६३ ।।
अत्राद्देशकः। 'षड्जलधिवहिकनकैस्त्रयोदशाष्टर्तुवर्णकैः क्रमशः। Hore वहि is ruletituted for रनल, and तुवर्णकैः for टावृतुक्षयः, us thereby
___
bhe reading will be better grainmatically,